वार्तासंयोजक: डॉ.दिनेश:चौबे
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य पञ्चदशस्थापनादिवससमारोह: अगस्तमासस्यसप्तदशतमे दिनाङ्के वैक्रमाब्द:२०८० श्रावणशुक्लप्रतिपदा (17-08-2023) दिनाङ्के गुरुवासरे प्रात: एकादश वादनत: योगेश्वरश्रीकृष्णयोगभवन देवासमार्गपरिसरस्य सभागारे समायोजितः आसीत् स्थापनादिवससमारोहस्य आध्यक्षत्वं विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमार: सीजीमहोदय: निर्वहत् ।
विशिष्टातिथिरूपेण परमपूज्य: स्वामी-शान्तिस्वरूपानन्द: महामण्डलेश्वर: श्रीचारधाम-आश्रम:,उज्जयिनी, सारस्वतातिथिरूपेण आचार्य: रामदास: अत्रामवर्यः, मान्यकुलपति: डॉ. भीमराव-अम्बेडकरसामाजिक विज्ञानविश्वविद्यालय:, महू, इंदौरम् ,विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः च समुपस्थिताः आसन् । समारोहस्य शुभारम्भः
सरस्वतीवन्दनया ,दीपदीप्नेन विश्वविद्यालयस्य कुलगानेन च जातम्। तदनु कार्यक्रमस्य संयोजकेन डॉ. तुलसीदासपारौहामहोदयेन प्रास्ताविकं स्वागतभाषणं च प्रस्तुतम्। समारोहेऽस्मिन् नवदेहलीस्थ केंद्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतं स्वीकृता: परियोजनानां पीठस्योद्घाटनम्, विश्वविद्यालयस्य आचार्याणां पुस्तकानां विमोचनं, पाणिनीयशोधपत्रिकायाः लोकार्पणम्, च जातम् । प्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्रीमगुभाईपटेलमहोदयस्य संदेशस्य वाचनं कुलपतिमहोदयेन कृतम् ,समारोहेऽस्मिन् मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहनयादवमहोदयस्य संदेशस्य वाचनं कुलसचिवमहोदयेन कृतम् अस्मिन्नवसरे संस्कृतविदुषी आचार्या इलाघोषमहोदया
संस्कृतसेवाव्रती इति सम्मानेन सम्मानिता जाता ।विशिष्टातिथि रूपेण विराजमानेन स्वामीवर्येण उक्तं यत् पाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य उज्जयिन्यां स्थापना इत्यस्माकं सौभाग्यम् उज्जैननगरस्य शिक्षाव्यवस्था अतिप्राचीना विश्वप्रसिद्धा च आसीत् ‘भारतीयज्ञानपरम्परायाः प्रकाश: सर्वत्र प्रसरति अस्ति संस्कृतेः संरक्षणाय सम्यक् रूपेण शास्त्राणामध्ययनम् परमावश्यकम् अस्ति। संस्कृतच्छात्राणां कृते सर्वत्र अवसरा: वर्तन्ते केवलं मार्गदर्शनमपेक्षते’।
आचार्यरामदास अत्राम्वर्येण भारतीयज्ञानयात्रायाः स्वरुपं संस्कृतस्य प्रचार- प्रसारे च् संस्कृतविश्वविद्यालयानां योगदानं इत्यादि विषये सत्रं संबोधितम् आध्यक्षीय उद्बोधने माननीयः कुलपतिः आचार्यविजयकुमारः सीजीमेननमहोदय: उक्तवान् विश्वविद्यालयस्य स्तम्भाः छात्राः भवन्ति अतः तेषां सर्वविध विकासाय अध्यापकाः निरन्तरं तेषां मार्गदर्शनाय प्रयत्नरताः सन्ति । भारतीय संस्कृतेः संरक्षणाय संस्कृतभाषाया: विकासाय च् वयं संकल्पिता: भारतविश्वगुरुरूपेण पुनः प्रतिष्ठितः अस्ति। संस्कृते सर्वं सन्निहितं अस्ति। कुलपति महोदयेन वार्षिकं प्रतिवेदनमपि प्रस्तुतम् ।
अनन्तरं सांस्कृतिकार्यक्रमाणां प्रस्तुति: संस्कृतस्तोत्र, देशभक्तिगीतानां गायनं, छात्राणां योगनृत्यप्रस्तुति: च अभवन् समारोहेस्मिन् कालिदाससंस्कृत-अकादमी निदेशक: डॉ.संतोषपण्डयामहोदय: वराहमिहिर वेधशालाया: निदेशक: श्रीमान् राजेन्द्र गुप्तमहोदय: श्रीराजेन्द्रझालानी, श्रीसुशीलवाडिया, डॉ.किरण यादव डॉ. विद्याजोशी, डॉ.सीमा शर्मा डॉ.योगेश्वरी फिरोजिया विश्वविद्यालयस्य वेद- व्याकरणविभागाध्यक्षः डॉ.अखिलेशकुमारद्विवेदी ,ज्योतिष विभागाध्यक्ष: डॉ.शुभम् शर्मा, योगविभागाध्यक्ष: डॉ. उपेन्द्रभार्गव: ,डॉ.संकल्पमिश्र: सर्वे प्राध्यापकाः, छात्राः, शोधच्छात्राः, अभिभावकाः, सामाजिकाः वार्ताहरा: च् समुपस्थिताः आसन्। मञ्चसञ्चालनं सुश्रीपूजगौरमहोदयया
श्रीसत्यवृतमहोदयेन च् आभारप्रदर्शनञ्च कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम् । कल्याण मन्त्रेण सह सभा समाप्ता जाता।











