आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालये अनन्तपुरे केन्द्रीय संस्कृतविश्वविद्यालयेन नवदेहल्याः सञ्चालिते अनौपचारिक संस्कृतशिक्षणकेन्द्रे विश्वसंस्कृतदिवसः महता वैभवेन समाचरितः।

विकासस्य मूलमन्त्रः संस्कृतम्। संस्कृतभाषा आधुनिकविज्ञानस्य आधारशिला अस्ति। संस्कृतभाषायाः विज्ञानेन तकनीक्या सह गहनः सम्बन्धः वर्तते। गुरुत्वाकर्षणसिद्धान्तः सहस्रवर्षेभ्यः प्राक् महर्षिणा कणादेन प्रदत्तमासीत्। संस्कृतग्रन्थेषु वर्णितं मनोविज्ञानं,दर्शनं, गणितं, योगः, आयुर्वेदः, अर्थशास्त्रं, प्रबन्धनं, भूगोलविज्ञानं, पदार्थविज्ञानम् इत्यादिकं सर्वमपि ज्ञानविज्ञानमस्माकं ऋषयः लोककल्याणार्थम् अस्मभ्यं प्रदत्तवन्तः। तेषु संस्कृतग्रन्थेषु विद्यमानस्य ज्ञानभण्डारस्य परिज्ञानाय सर्वैरपि संस्कृताध्ययनं करणीयम् – कुलपतिः प्रो० एस. ए. कोरी-महोदयः

आन्ध्रप्रदेशः, अनन्तपुरम् केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली एवञ्च आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालयः, अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे विश्वसंस्कृतदिवससमारोहः समायोजितः।
तत्रादौ दीपप्रज्ज्वलनपुरस्सरं शारदार्चनेन वैदिकमङ्गलाचरणेन अतिथिभिः कार्यक्रमस्य शुभारम्भो विहितः।
प्रास्ताविकोद्बोधने केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन संस्कृतदिवसस्य विषये अपि च संस्कृतस्य महत्त्वं प्रतिपादयन् प्रोक्तं यत् श्रावणपूर्णिमायां रक्षाबन्धनपर्वणि विश्वसंस्कृतदिवसः आभारते सोत्साहेन समाचर्यते। अधुना एतत् विश्वसंस्कृतदिनम् अथवा विश्वसंस्कृतदिवसः भारतसर्वकारः यूनेस्को संस्था च मिलित्वा विश्वे सर्वत्र आयोज्येते। विश्वेस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् संस्कृतसप्ताह आचर्यते। भारतस्य विभिन्नेषु स्थानेषु संस्कृतप्रेमिणः संस्कृतदिनम् अथवा संस्कृतसप्ताहः अत्युत्साहेन आचरन्ति। पाठशालासु, विश्वविद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य. संस्कृतदिवसस्य च विशिष्टम् आयोजनं भवति। नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, संस्कृतगीतानां गायनम् इत्यादयः प्रवृत्तयः आभारते भवन्ति।

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। संस्कृतं संस्कृताश्रिता। संस्कृतभाषा भारतीयसंस्कृतेश्च प्राणवाहिका सर्वभाषाणां च सम्पोषिका वर्तते। संस्कृताध्ययनेन मानवजीवनस्य सर्वाङ्गीणः विकासः भवति। संस्कृतभाषायाः उच्चारणेन शरीरं मनश्च विशुद्धं भवति। संस्कृतं भारतस्य आत्मा। यथा शरीरे आत्मनः अस्तित्वम्। तथैव भारते संस्कृतस्य विशिष्टं महत्त्वं वर्तते। अतः प्रत्येकमपि भारतीयेन संस्कृताध्ययनं विधेयम् – आचार्यः विशालप्रसादभट्टः


श्रावणपूर्णिमा संस्कृतोत्सवस्य दिनम्। तत: पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताह: आचरणीय: इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति। यद्यपि भारते वर्षस्य ३६५ दिनानि अपि संस्कृतदिनानि भवेयु:, तथापि अद्य सा स्थिति: नास्ति। आनेतव्या तादृशी परिस्थिति: इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं वयं कुर्मः। संस्कृतं समाजव्यापि भवेत्। लोकव्यवहारे आगच्छेत्। तदर्थं सर्वैरपि संस्कृतं स्वीयनित्यजीवने आचरणीयम्।
तदनु भारतस्य प्रधानमन्त्रिणः मान्यस्य श्रीनरेन्द्रमोदी-वर्यस्य “मन की बात कार्यक्रमे सम्पूर्णदेशवासिभ्यः विश्वसंस्कृतदिवसमुपलक्ष्य प्रसारितस्य सन्देशोपि स्मार्टबोर्डमाध्यमेन सुश्रावितः।
कार्यक्रमस्य मुख्यातिथिः आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालयस्य मान्यः कुलपतिः प्रो० एस. ए. कोरी-महोदयः प्रोक्तवान् यत् विकासस्य मूलमन्त्रः संस्कृतं वर्तते। संस्कृतभाषा आधुनिकविज्ञानस्य आधारशिला अस्ति। संस्कृतभाषायाः विज्ञानेन तकनीक्या सह गहनः सम्बन्धः वर्तते। गुरुत्वाकर्षणस्य सिद्धान्तः न्यूटनेन न अपितु सहस्रवर्षेभ्यः प्राक् महर्षिणा कणादेन प्रदत्तमासीत्। मनोविज्ञानं,दर्शनं, गणितं, योगः, आयुर्वेदः, अर्थशास्त्रं, प्रबन्धनं, भूगोलविज्ञानं, पदार्थविज्ञानम् इत्यादिकं सर्वमपि ज्ञानविज्ञानमस्माकं ऋषयः वेैदिकसाहित्ये संस्कृतशास्त्रेषु च अनादिकालात् लोककल्याणार्थं प्रदत्तवन्तः। तेषु संस्कृतग्रन्थेषु विद्यमानस्य ज्ञानभण्डारस्य परिज्ञानाय सर्वैरपि संस्कृताध्ययनं करणीयम्।
डॉ० शिल्पा श्रीः संस्कृतस्य विषये स्वविचारान् प्रस्तुतवती। तया उक्तं यत् अस्माकं भारतीयपरम्परायां महर्षिः पतञ्जलिः शारीरिकस्वास्थ्य कृते योगासनं, मानसिकस्वास्थ्य कृते च ध्यानं प्राणायामञ्च शिक्षितवान्। संस्कृतं केवलं भाषा न अपितु सम्पूर्णमपि जीवनदर्शनम्।
श्रीमती प्रमिला महोदया भगवद्गीतायाः श्लोकद्वयमुक्त्वा तयोः भावार्थञ्च प्रकटितवती। राजनीतिविभागीयः छात्रः श्रीविजयः ध्येयमन्त्रमुक्त्वा तस्य भावं च बोधयन् कथितवान् यत् संस्कृतं व्यक्तित्वविकासाय महत्त्वपूर्णम्।
डॉ० सुनीता कुमारी सर्वेषां धन्यवादज्ञापनं कृतवती। अन्ते च शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिः सञ्जाता। कार्यक्रमस्य सफलतया सञ्चालनं केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन विहितम्। जयतु संस्कृत, विश्वपोषकम्।