पाणिनिसंस्कृतविश्वविद्यालये विशिष्टव्याख्यानस्य आयोजनं जातम्

वार्तासंयोजक: डॉ.दिनेश: चौबे,उज्जयिनी

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेन्द्रस्य तत्त्वावधाने संस्कृतसप्ताहसमारोहस्य उपलक्ष्ये असप्ताहं यावत् केन्द्रेण नानाविदुषां विशिष्टव्याख्यानानि आयोज्यन्ते अगस्तमासस्य 28-दिनाङ्कतः सितम्बरमासस्य 3-दिनाङ्कं यावत् अस्य कार्यक्रमस्य आयोजनं भवति समारोहस्य उद्घाटनं 28 तमे दिनाङ्के अभूत् कार्यक्रमस्य द्वितीयदिवसे आत्मनिर्भरभारतम् इति विषये विशिष्टव्याख्यानं सञ्जातम्।अस्मिन् कार्यक्रमे डॉ.अनुराधाशङ्करवर्या,अतिरिक्त पुलिसमहानिदेशिका ,पुलिस मुख्यालय:, भोपालम् मुख्यवक्तृरूपेण उपस्थिता आसीत् ।महोदया अस्माकं जीवनशैल्या आत्मनिर्भरा:वयं कथं भवेयमिति आत्मनिर्भरभारतम् इति विषये अतिरुचिपूर्णं व्याख्यानं प्रद्दतवती तस्याः विशिष्टभाषणेन सभा नितराम् उपकृता अभवत् अवसरे अस्मिन् सोमनाथसंस्कृतविश्वविद्यालयस्य कुलपति:आचार्य: सुकान्तकुमारसेनापतिवर्य: सभायामस्याम् उपस्थित:आसीत् महोदयस्य आशीर्वचोभिः सभा प्रफुल्लिता जाता।विश्वविद्यालयस्य कुलपतिमहोदयस्य मार्गदर्शने व्याख्यानमालाया: सफलमायोजनं प्रचलति इति । कार्यक्रमस्य आदौ वैदिकमङ्गलाचरणं तदनु विश्वविद्यालयस्य कुलगानं च अभवत् । अतिथिनां स्वागतं प्रस्तावकीयम् च डॉ.संकल्पमिश्र महोदयेन कृतम् ।
सम्पूर्णसंस्कृतसप्ताहसमारोह कार्यक्रमस्य संरक्षकः व्याख्यानसत्राणां सत्राध्यक्षश्च विश्वविद्यालयस्य माननीयकुलपतिः आचार्यविजयकुमार: सीजीवर्यः अस्ति महोदयेन सभा सम्बोधिता संस्कृतसप्ताहसमरोहस्य शुभकामनाः च प्रदत्ता । कार्यक्रमसंयोजकः वेदव्याकरणविभागाध्यक्ष:, डॉ.अखिलेशकुमारद्विवेदीमहोदय: वर्तते । कार्यक्रमस्य सञ्चालनं डॉ.दिनेशचौबेमहोदयेन आभारप्रदर्शनं श्रीविवेकानन्द लक्ष्मणमहोदयेन कृतम्। कल्याण मन्त्रेण सह सभा समाप्ता जाता।