प्रधानमन्त्रिणा नरेन्द्रमोदिना पञ्चसप्ततिवर्षाणां संसदीययात्राम् अभिलक्ष्य कृतप्रसंगानन्तरम् लोकसभायाः चर्चारम्भो जातः ।

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् संसदः विशेषसत्रं अल्पकालिकं सत्यपि सत्रमिदम् ऐतिहासिक निर्णयानां सत्रं भविष्यति। पञ्चदिवसीयस्य विशेषसत्रस्य आरम्भे प्रधानमन्त्रिणा सामाजिक-संचार सन्देश- पटल माध्यमेन प्रोक्तं यत् विगतपञ्चसप्तति-वर्षाणाम् यात्रा साम्प्रतम् एकस्मात् नूतनस्थानात् इत्युक्ते नूतनसंसदभवनात् आरभ्यते । अस्य सत्रस्य विषयः सर्वाधिकः विशेषः भविष्यति । सः उक्तवान् यत् नूतन-यात्रारम्भ-स्थानात् एतां यात्रां अग्रे नीत्वा अस्माभिः सप्तचत्वारिंशदधिक-द्विसहस्रतम वर्ष यावत् भारतं विकसितराष्ट्रं कर्तव्यम्। सः उक्तवान् यत् एतस्य लक्ष्यस्य प्रापणाय अग्रे सर्वेऽपि निर्णयाः नूतने संसदभवने एव नेष्यन्ते। सः सर्वानपि सांसदान् आहूतवान् यत् ते उत्साहेन अस्य सत्रस्य कृते अधिक समयं समर्पयन्तु इति ।

प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् विगत पञ्चसप्तति वर्षेषु संसद: बृहत्तमा उपलब्धिः वर्तते यत् अस्मिन् जनानां निरन्तरं वर्धमानः विश्वासः । संविधानसभायाः उपलब्धिनां, स्मृतिनां सन्देशानां च पञ्चसप्तति वर्षाणां संसदीययात्रायां लोकसभायां चर्चारम्भं कुर्वता प्रधानमन्त्रिणा प्रोक्तं यत् भारतीयलोकतन्त्रस्य सर्वेषां नतोन्नत यात्रायां साक्षीभूतं संसदभवनमिदं जनानां विश्वासस्य केन्द्रं वर्तते इति। चर्चायां भागं गृह्णन् केन्द्रीयमन्त्रिणा पीयूषगोयलेन प्रोक्तं यत् सदनस्य गरिमा तदैव वृद्धिम् अवाप्स्यति यदा सर्वेजना : राष्ट्रहितं जनहितञ्च उन्नतायां स्थापयिष्यन्ति । विपक्षिणः नेत्रा मल्लिकार्जुन खड़गे इत्यमुना इत्यमुना प्रोक्तं यत् भारतीयं संविधानं देशस्य सर्वोच्चमार्गदर्शक: अस्ति । यतो हि अस्य संवैधानिमूल्यानि बहुश: त्यागेन काठिन्येन च अर्जितानि सन्ति। राजद इत्यस्य सांसदेन मनोजकुमार झा इत्यनेन वृत्तेः न्यूनतायाः संकटे स्वविचाराणि संस्थापितानि । भाजपादलस्य भुवनेश्वरकलिता इत्यनेन उक्तं यत् देशेन आर्थिकक्षेत्रे उल्लेखनीया उपलब्धिः समधिगताऽस्ति । सहैव हि देश: पञ्चमी सर्वोत्तमा आर्थिकशक्तिः सञ्जातोऽस्ति । अस्यां चर्चायां कांग्रेसदस्य शक्तिसिंह गोहिल, डीएमके इत्यस्य डॉ. एम. थम्बीदुरई, बीआरएस इत्यस्य डॉ. केशवरावः इत्यादयः नेतारः भागम् अभजन्।