नव-दिल्ल्यां जवाहरलाल नेहरू विश्वविद्यालये संस्कृत-प्राच्य- विद्याध्ययन संस्थाने “संस्कृतशास्त्रपरम्परायां ललितकला:” इति विषयमधिकृत्य संस्कृतसप्ताह महोत्सवस्य उद्घाटनं सञ्जातम्। संस्कृत- संकायाध्यक्षः सुधीर कुमार आर्यः स्वस्वागत वक्तव्ये विविधेषु शास्त्रेषु चतुःषष्टिकलानां उपलब्ध विवरणं प्रस्तुतवान्। मुख्य वक्ता इंदिरा गांधी- राष्ट्रीय कला केंद्रस्य न्यासी भरत गुप्तः प्रतिपादितवान् यत् भारते कस्मिन्नपि काले कलासु ललित कला कृति वर्गीकरणं नासीत् ललित कला इति पदं तु आंग्ल आषायाः “फाइन आर्ट्स इत्यस्य शाब्दिक अनुवादमेव तदपि प्राचीन- ग्रीसस्य संस्कृतेः आयातितमेव, भारते तु प्राक्कालादेव सर्वाः कलाः सौन्दर्यात्मिकाः ललिताश्च । उद्घाटन कार्यक्रमे संस्कृत-भारतेः अखिल भारतीय- संघटन मंत्री दिनेश कामयः उक्तवान् यत् संस्कृतमेव सर्वासां कलानां उपकारं करोति इति। कार्यक्रमे सांस्कृतिक प्रस्तुतिभिः सह संस्कृत- आषणस्य संस्कृत- आशुभाषणस्य च प्रतियोगिताः समायोजिताः।












Good