केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे संस्कृतसंभाषणशिविरस्य उद्घाटनसमारोहः ११/०९/२०२३ दिनांड्के अनुष्ठितः

संवादक:- प्रवेशकुमारशुक्ल: लखनऊ

केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे शिक्षाशास्त्रविद्याशाखायां लोकभाषा- प्रचारसमितिः एवं केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरः इत्यनयो: मिलितानुतूल्येन दशदिवसात्मकसंस्कृतसंभाषणशिविरस्य उद्घाटनसमारोहः आयोजितः । शिक्षाशास्त्रविद्याशाखाया: शाखाध्यक्षाया: आचार्यायाः अवनीश अग्रवालमहोदयाया : आध्यक्षे सामारोहोऽयम् अनुष्ठितः। समारोहे अस्मिन् मुख्यातिथित्वेन केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य व्याकरणविद्याशाखायाः आचार्या: प्रो० भारतभूषणत्रिपाठीवर्याः संस्कृतसंभाषणस्योपादेयता संदर्भे स्वविचारान् समुपस्थापितवन्तः। कार्यक्रमेऽस्मिन् शाखायाः आचार्या: प्रो० देवीप्रसाद द्विवेदीमहोदयाः, प्रो. बच्चाभारतीमहोदयाः . प्रो० गणेशशंकरविद्यार्थीमहोदयाः, डॉ. राधातिवारीमहोदयाश्च उपस्थिता: आसन् ।
संस्कृतसंम्भाषणशिविरस्य संचालका : विद्याशाखायाः सहायकाचार्या : डॉ० रुद्रनारायणनरसिंहमिश्रमहोदयाः शिविरस्य उद्देशयं लक्ष्यं च स्पष्टं कृतवन्तः। समारोहे अस्मिन् शिक्षाशास्त्रप्रथमवर्षीयाः सर्वे छात्राध्यापकाः छात्राध्यापिकाश्च प्रतिभागं कृतवन्तः। शिक्षाशास्त्रविद्याशाखाया: सहायकाचार्या: डॉ. हरिओमशर्मामहोदयाः कार्यक्रमस्यास्य संयोजकत्वेन सम्पूर्णां व्यवस्थां संचालितवन्त:।