हिन्दी-भाषा राष्ट्रस्य एकता-सद्भावनयो: सूत्रं नैरन्तर्येण सुदृढं करिष्यतिसञ्जातम्।

चतुर्दश सेप्तेम्बर् दिनाङ्के देशे हिन्दी दिवस: आचर्यते । प्रधानमन्त्रिणा – नरेन्द्र मोदिना हिन्दी- दिवसावसरे देशवासिभ्यः शुभकामना: प्रदत्ताः । सामाजिक- अर्न्तजाल – सन्देश- पटले श्री मोदिना आशा व्यक्ता यत् हिन्दी-भाषा राष्ट्रस्य एकता-सद्भावनयो: सूत्रं नैरन्तर्येण सुदृढं करिष्यति। नवचत्वारिंशदधिक-नवदश-तम वर्षस्य सितम्बर-मासस्य चतुर्दश दिनांके संविधानसभा हिन्दीभाषां देशस्य राजभाषारूपेण स्वीकृतवती । यतो हि भारते अधिकेषु क्षेत्रेषु हिन्दी-भाषा भाष्यते अतः हिन्दीभाषा राजभाषा रूपेण निर्णीता आसीत् । एषा भाषा द्विपञ्चाशदधिक कोट्यधिकानां जनानां प्रथमा भाषा वर्तते। केन्द्रीय-गृह- मन्त्री अमित शाहः अस्मिन् अवसरे उक्तवान् यत् हिन्दीभाषा विश्वस्य बृहत्तमे लोकतान्त्रिक भारते भाषागतां विविधतां सूत्रे बध्नाति ।