महिलाभ्यः आरक्षण सम्बद्ध- विधेयकः राज्यसभायां पारितः । अवधेयं यत् लोक्सभायां अयं विधेयकः बहुमत-ध्वनिना पूर्वमेव पारितः आसीत्।

महिलाभ्यः आरक्षण सम्बद्ध- विधेयकः राज्यसभायां पारितः । विधि-न्याय मंत्री अर्जुनमेघवालः अष्टाविंशत्युत्तरैकशततमं संविधान संशोधन विधेयकं उपरि-सदने प्रस्तुतवान् । अवधेयं यत् लोक्सभायां अयं विधेयकः बहुमत-ध्वनिना पूर्वमेव पारितः आसीत्। राज्यसभायां स्वभाषणे प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् महिला आरक्षण सम्बद्धे विधेयके उभयोः सदनयोः सकारात्मक चर्चा सञ्जाता। प्रधानमन्त्रिणा अस्मिन् विधेयके चर्चां कृतवद्भ्यः सर्वेभ्यः सांसदेभ्यः धन्यवादाः प्रदत्ताः।
श्रीमेघवालः प्रोक्तवान् यत् अनेन विधेयकेन देशे महिलाना सशक्तीकरणे वृद्धिः भविष्यति । सः प्रोक्तवान् यत् अयं विधेयकः अमृतकाले भारत विकसितराष्ट्रं कर्तुं महत्वपूर्ण पदक्षेपः भविष्यति । श्रीमेघवालः उज्ज्वला योजना, मुद्रा-योजना महिलाभ्यः लाभप्रदायकान् अन्य-कल्याण-प्रद कार्यक्रमान् समारब्धुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसां कृतवान् । सः प्रोक्तवान् यत् अनुसूचित जाति अनुसूचित-जनजातिभिः सम्बद्धाः महिलाः अस्यविधेयकान्तर्गतं त्रयस्त्रिंशक्-प्रतिशत आरक्षण लाभं प्राप्स्यन्ति ।
भारतीय जनता पार्टीति दलस्य नेता जगत प्रकाश नड्डा विश्वास व्यक्तम् अकरोत् यत् नारी शक्ति-वंदन – अधिनियमः, यः लोकसभया ह्यः एव पारितः, राज्यसभायाम् अपि सर्वसम्मत्या पारितो भविष्यति | सः प्रोक्तवान् यत् भारतीय-संस्कृतौ सर्वदैव महिलानां महत्वपूर्ण भूमिका आसीत् श्रीनड्डा प्रावोचत् यत् भाजपा दलं कमपि राजनीतिकलाभं नेच्छति अपितु महिलानां सशक्तीकरण वाच्छति । सः प्रावोचत् यत् विगतेषु नव वर्षेषु नरेन्द्र मोदी सर्वकारेण महिलानां सशक्तीकरणाय विविधोपायाः कृताः। विधेयकस्य समर्थनं कुर्वन् कांग्रेस-दलस्य नेता सुश्री रंजीत रंजनः प्रोक्तवान् यत् संसदि महिलानां प्रतिनिधित्वे वृद्धिः भवितव्या एव परं, महिलारक्षण विधेयकस्य संसदि विलम्बेन उपस्थापनाय तेन प्रश्नः समुत्थापितः । तृणमूल कांग्रेस्-दलस्य डोला सेनः, डीएमके-दलस्य नेत्री डॉ. कनिमोझी-सोमू, आम आदमी पार्टीति दलस्य नेता संदीप कुमार पाठकः चापि अस्यां चर्चायां भागं गृहीतवन्तः । सदने विधेयकमधिकृत्य चर्चा प्रचलन्ती अस्ति। महिला आरक्षण विधेयकम् राज्यसभायाः सभापतिः जगदीप- धनखड़ः एकम् ऐतिहासिक-पदक्षेपं प्रतिपादयन् उपाध्यक्षाणां दले सर्वाः महिलाः सम्मेलितवान् । त्रयोदश-सदस्यानां इदं दलं केवलं अद्य यावत् विनिर्मितम् अस्ति यतः हि अद्य राज्यसभायां नारी शक्ति-वंदन अधिनियमः इति महिलारक्षण विधेयकम् अधिकृत्य चर्चा प्रवर्तते । अस्मिन् महिला-दले पीटी उषा, जया बच्चन, सरोज पांडे, डोला सेन, सुलता-देव, डॉ. फौजिया खान च सम्मिलिताः सन्ति । सभापतिना प्रोक्तं यत् एतासां महिलानां कार्यदलेन विश्वाय एकः सशक्त संदेशः प्रदास्यते ।
महिलारक्षण विधेयकम् प्रस्तुवन् केन्द्रिय-विधि-न्याय मन्त्री अर्जुनराम मेघवालः विधेयकं महिला सशक्तीकरण-दिशि ऐतिहासिक पदक्षेपः इति प्रतिपादितम् । सः प्रोक्तवान् यत् अनेन महिलानां समानतावसरेषु वृद्धिः भविष्यति । श्रीमेघवालः प्रावोचत् यत् सर्वकारेण देशे सामाजिकार्थिक- असमानताः दूरीकर्तुं विविधोपायाः कृताः । चर्चा प्रारम्भं कुर्वता कॉन्ग्रेस्-इति दलस्य वरिष्ठ नेतृणा सोनिया गान्धी इत्यनया प्रोक्तं यत् तस्याः दलं विधेयकस्यास्य समर्थनं करोति । सा प्रावोचत् यत् भारतीय-नारीणां धैर्यं समुद्र- सदृशम् अस्ति अपि च नदीसमं ताभिः सर्वेषाङ्कल्याणाय कार्याणि कृतानि । सरोजिनी नायडू, अरुणा आसफ अली, राजकुमारी अमृत कौर सदृशानां महतां विभूतिनां योगदानं स्मारयन्ती श्रीमती सोनियागांधी प्रोक्तवती यत् महिलाभिः स्वतन्त्रतांदोलने आधुनिकभारतस्य निर्माणे च महत्वपूर्ण योगदानं प्रदत्तम् । श्रीमती गांधी सम्प्रार्थयन्ती प्रोक्तवती यत् जात्याधारित जनगणना शीघ्रातिशीघ्रं विधाय अनुसूचित जाति अनुसूचित-जनजाति अन्यवञ्चित-वर्गैः सह महिलारक्षण विधेयकं तत्कालमेव क्रियान्वितं कर्तव्यम् । सा इदमपि प्रोक्तवती यत् अस्य विधेयकस्य सम्पादने जातेन विलम्बेन भारतीय महिलाः प्रति I सा पुनः प्रावोचत् यत् सर्वकारेण अन्यायः सञ्जातः अस्य विधेयकस्य प्रभावकारि कार्यान्वयनस्य मार्गे समुपस्थिताः अवरोधाः अवश्यमेव दुरीकर्तव्याः ।