अष्टादशतमस्य जी- विंशति- शिखर सम्मेलनम्

नवदिल्लीनगरे विगत दशम दिनाङ्के अष्टादशतमस्य जी- विंशति-शिखरसम्मेलनस्य सफलतापूर्वकं समापनम् अभवत्। भारतेन जी-विंशति-समुहस्य अध्यक्षपदं ब्राजील्-देशाय समर्पितम् । समापनसमारोहे प्रधानमन्त्री नरेन्द्रमोदी जी विंशति-समुहस्य आध्यक्षत्वं औपचारिकरूपेण ब्राजील-देशस्य राष्ट्रपति लुईस इनासिओ लुला दा सिल्वा इत्यस्मै प्रदत्तवान् । अस्मिन् अवसरे श्री मोदी स्वविश्वासं प्रकटितवान् यत् ब्राजीलस्य अध्यक्षतायां जी-विंशति-समुहः संयुक्तलक्ष्यं संप्राप्तुं समर्थः भविष्यति इति । शिखरसम्मेलने निर्णीतानां विषयाणां समीक्षाये नवम्बरमासस्य अन्ते सामुहिक आभासीयोपवेशनसत्रं करणीयम् इत्यपि तेन प्रस्तावितम् । जी-विंशति-समुहस्य अध्यक्षतायाः प्रतीकं स्वीकृत्य ब्राजीलस्य राष्ट्रपतिः अवदत् यत् वर्तमान-काले जगति धनं अधिकतया संकेन्द्रीभूतम् अस्ति, तदैव कोटयः जनाः क्षुधया पीडिताः सन्ति। ब्राजीलस्य राष्ट्रपतिः उक्तवान् यत् आय, स्वास्थ्यसेवा, शिक्षा, खाद्य, लैङ्गिकविषमता इत्यादीनां असमानतायाः विषयेषु समाधानस्य आवश्यकता अस्ति ।
ततः पूर्व प्रधानमन्त्री नरेन्द्रमोदी जी विंशति शिखरसम्मेलनस्य द्वितीये अन्तिमे च दिवसे नव दिल्लीनगरे ‘एक भविष्य ‘ इत्यस्मिन् विषये तृतीयसत्रस्य अध्यक्षतां कृतवान्। भारतस्य जी-विंशति अध्यक्षतायाः मुख्यसमन्वयकः हर्षवर्धन श्रीङ्गला अवदत् यत् शिखरसम्मेलनसमये अफ्रिकीय-संङ्घस्य जी-विंशति-समुहे समावेशः, नव दिल्लीघोषणायां स्वीकृतिः च भारतस्य कृते एका प्रमुखोपलब्धिः अस्ति । उद्घाटन- सत्रे, प्रधानमंत्री नरेंद्र मोदी अफ्रीकीय-संघस्य प्रमुखः अजाली असौमानी इत्यमूं जी-विंशति-समूहस्य स्थायी सदस्य-रूपेण समूहे स्व-स्थानं ग्रहणाय आमंत्रितं कृतवान्। भारतेन प्रस्तावितं यत् ‘सबका साथ, सबका विकास’ इत्यस्य भावनया सह अफ्रीकीय-संघाय जी-विंशति-समूहस्य स्थायी सदस्यता प्रदातव्यम्। ‘एका पृथ्वी’ शीर्षकमाने प्रथमे सत्रे स्व- टिप्पण्यां, श्री मोदी प्रावोचत् यत् भारतस्य जी- विंशति अध्यक्षता देशस्य अन्तः बहिः चेत्येतौ स्थानद्वयाँ समावेशनस्य प्रतीकं विनिर्मितौ । श्री मोदी उक्तवान् यत् एषः भारते जनानां जी-विंशति-सम्मेलनं जातम् यतो हि कोट्यात्मिकाः भारतीयाः अनेन सम्बद्धाः सन्ति। भारतेन अद्य विश्वाय वैश्विक- विश्वासस्य अपचितिं विश्वास-संनिर्भरता चेत्येतयोः परिवर्तयितुं आह्वानं कृतम्। प्रधानमंत्री मोदी उक्तवान् यत् एषः समयः सर्वैः सह मिलित्वा अग्रे वर्धनस्य अस्ति, तेनोक्तं यत् भोजन- ईंधनयो: प्रबंधनं भवेत्, आतंकवादस्य शमनं भवेत्, साइबर सुरक्षा भवेत्, स्वास्थ्यं भवेत्, ऊर्जा उत् वा जल सुरक्षा भवेत्, आगामि-वंशपन्क्तिभ्यः सुदृढं समाधानं मिलित्वा अन्वेष्यिष्येम । श्री मोदीउक्तवान् यत् एक-विंशतितमा शताब्दी विश्वं नूतन-दिगं प्रदर्शनय महत्वपूर्ण समयः अस्ति। श्री मोदिना प्राबल्येन उक्तम् यत् एषः समयः अस्ति यदा पुरातना समस्याः नूतन-समाधानानि अन्वेषयन्ति अथ विश्वं मानव- केंद्रित- दृष्टिकोणैः सह उत्तरदायित्वान् पूर्णं कृत्वा अग्रे विवर्धयितव्यम्। प्रधानमन्त्री समुदीरितवान् यत् यदीति विश्वः कोविड-महामारी पराजयितुं शक्नोति, तर्हि विश्वः युद्धकारणात् उत्पन्नां विश्वासस्य अपचितौ अपि विजय प्रापणाय सक्षमो वर्तते। तदनन्तरम् शिखरसम्मेलनस्य प्रथमदिने जी-विंशति सदस्यदेशाः सर्वसम्मत्या नवदिल्लीघोषणाम् अङ्गीकृतवन्तः । एतत् भारतस्य जी- विंशति अध्यक्षतायै महत्वपूर्णं विजयं मन्यते।