केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे संस्कृतसंभाषणशिविरस्य सम्पूर्त्तिसमारोहः अनुष्ठितः

संवादक:- प्रवेश कुमार शुक्लः

केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे शिक्षाशास्त्रविद्याशाखायां लोकभाषा- प्रचारसमितिः एवं केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरः इत्यनयो: मिलितानुतूल्येन दशदिवसात्मकसंस्कृतसंभाषणशिविरस्य सम्पूर्त्तिसमारोहः आयोजितः । शिक्षाशास्त्रविद्याशाखाया: शाखाध्यक्षाया: आचार्यायाः अवनीश अग्रवालमहोदयाया : आध्यक्षे सामारोहोऽयम् अनुष्ठितः। समारोहे अस्मिन् मुख्यातिथित्वेन लखनऊस्थ लखनऊ विश्वविद्यालयस्य सहायकाचार्या: डा० सत्यकेतुवर्याः संस्कृतसंभाषणस्योपादेयता संदर्भे स्वविचारान् समुपस्थापितवन्तः।सम्मानितातिथिरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रसंकायप्रमुखा: आचार्या: लोकमान्यमिश्रमहोदया: संस्कृतसम्भाषणाय शिविरमिदं प्रेरयतीति उक्तवन्त। कार्यक्रमेऽस्मिन् शाखायाः आचार्या: प्रो० देवीप्रसाद द्विवेदीमहोदयाः, प्रो. बच्चाभारतीमहोदयाः . प्रो० गणेशशंकरविद्यार्थीमहोदयाः, डॉ. हरिओंमशर्ममहोदयाश्च उपस्थिता: आसन् ।
संस्कृतसंम्भाषणशिविरस्य संचालका : विद्याशाखायाः सहायकाचार्या : डॉ० रुद्रनारायणनरसिंहमिश्रमहोदयाः शिविरस्य प्रतिवेदनं प्रस्तुतवन्तः। समारोहे अस्मिन् शिक्षाशास्त्रप्रथमवर्षीयाः द्वितीय वर्षीया: सर्वे छात्राध्यापकाः छात्राध्यापिकाश्च प्रतिभागं कृतवन्तः। शिक्षाशास्त्रप्रथमवर्षीय: छात्राध्यापक: श्रीमान् अंकुरत्रिपाठी कार्यक्रमस्यास्य सम्पूर्णां व्यवस्थां संचालितवान्। अस्मिन् कार्यक्रमे विभिन्नतायाम् एकता,व्यवहरमाम्, कुष्माण्डभोजनालय: इत्येतानि त्रीणि नाटकानि छात्राध्यापकै: छात्राध्यापिकाभिश्च प्रदर्शितानि।