विश्वबैङ्केन द्विसहस्र- त्रयोविंशतिः चतुर्विंशतिः तमस्य वित्तवर्षस्य कृते भारतस्य वृद्धिदरस्य अनुमानं षड्-दशमलव-त्रि प्रतिशतं यावत् स्थापयितुं निर्णयः कृतः अस्ति । भारते अनेकानि बाह्य-समस्याः सन्ति चेदपि भारते नैरन्तर्येण सुदृढं आर्थिक वृद्धिं दृष्ट्वा निर्णयोऽयं स्वीकृतः अस्ति । अप्रैल मासस्य स्वीय- प्रतिवेदने विश्वबैङ्केन द्विसहस्र- त्रयोविंशतिः चतुर्विंशति तमे वर्षे भारतस्य वृद्धिदरस्य अनुमानं पूर्वस्य षड्- दशमलव षड् प्रतिशतात् षड्-दशमलव -त्रि प्रतिशतं यावत् न्यूनीकृतम् आसीत् । भारतस्य विकासस्य विषये विश्वबैङ्कस्य नवीनतम प्रतिवेदनानुसारं भारतस्य अर्थव्यवस्थायाः विषये अन्ताराष्ट्रियवित्तीयसंस्थानां अर्धवार्षिकप्रमुखप्रतिवेदने उक्तं यत् प्रमुखवैश्विकसमस्यानाम् उपरान्तम् अपि भारतं द्विसहस्र- द्वाविंशतिः त्रयोविंशतिः तमे वर्षे सप्त- दशमलव द्वि प्रतिशतस्य वृद्धिदरेण द्रुततरं वर्धमानं प्रमुखा अर्थव्यवस्थायां सम्मिलितः आसीत् ।











