प्रधानमन्त्री नरेन्द्र मोदिना उक्तं केन्द्रस्य भाजपेति दलस्य सर्वकारः देशे आधारभूत संरचनायाः विकास क्रमे ध्यानं प्रददाति, छत्तीसगढ़े सप्तविंशति सहस्र कोटी रूप्यकाधिक विकास परियोजना समारब्धा ।

प्रधानमंत्री नरेन्द्र मोदिना उक्तं यत् केन्द्रे भारतीय जनता पार्टी इति दलस्य सर्वकारः देशे आधारभूत संरचनायाः विकासे विशेष ध्यानं प्रददाति।
अद्य छत्तीसगढ़स्य जगदलपुरे प्रधानमन्त्रिणा उक्तं यत् विगतेषु नव वर्षेषु आधारभूत सुविधानां विकासे व्ययं वर्धयित्वा दश-लक्ष-कोट्यावत् रूप्यकणि कृतम्। श्रीमोदी प्रोदीरितवान् यत् विकसित- भारतस्य स्वपनं तदैव साकारः भविष्यति, यदा देशस्य प्रत्येकं राज्यं, ग्रामं जनपदं, ग्रामाश्च विकसिताः भविष्यन्ति । तेनोक्तं यत् विकसित भारताय भौतिक, डिजिटल, सामाजिक क्षेत्राणां सम्बद्धा मूलभूत सुविधानां भविष्यस्यावश्यकतानुसारं सज्जता कर्तव्या भवति ।
प्रधानमंत्रिणा उक्तं यत् विगतेषु नव वर्षेषु लौहोत्पादने भारतम् आत्मनिर्भरार्थम् अनेके महत्वपूर्ण निर्णयाः स्वीकृतम् । श्री मोदिना प्रोदीरितं यत् बस्तरे नागरनारे इत्यत्र राष्ट्रिय खनिज- विकास निगमस्य लौह-संयत्रेण वाहन क्षेत्रं, रक्षा क्षेत्रं च नूतनोर्जा प्राप्स्यते। तेन भणितं यत् बस्तरे विनिर्मितं लौह न केवलं भारतीय सैन्य दलं सुदृढी-करोति अपितु भारतस्य रक्षा-निर्यातमपि अग्रे सारयति । श्री मोदिना उक्तं यत् बस्तरेत्यत्र संस्थापितं लौह-संयंत्रेण छत्तीसगढ़े पञ्चाशत्-सहस्रं यावत् यूनाम् वृत्यावसरः प्राप्यते। प्रधानमन्त्री नरेन्द्र मोदिना अद्य छत्तीसगढ़े आदिवासी-बस्तर संभागस्य संभागीय मुख्यालये जगदलपुरे सप्तविंशतिः सहस्र-कोटि-रूप्यका मकस्य विभिन्न-विकास- परियोजनानां शिलान्यासः विहितः । प्रधानमंत्रिणा बस्तरे नगरनारे चतुर्विंशति सहस्र-कोटि रूप्यकाणां व्ययेन निर्मितं राष्ट्रिय खनिज विकास निगमस्य नूतन संयंत्रमपि राष्ट्राय समर्पितम् । स्व जगदलपुर- यात्रावधौ प्रधानमन्त्रिणा जगदलपुर लौहयानस्थानकस्य जीर्णोद्धार कार्यस्यापि शिलान्यासं कृतम् । तेन अंतागढ़ तरोकी इत्यनयोः मध्ये नूतन – रेल मार्ग राष्ट्राय समर्पितम् । श्री मोदिना जगदलपुर दंतेवाड़ा इत्येतयोः मध्ये द्विगुणी- रेल मार्ग परियोजनायाः अपि लोकार्पणं कृतम्। एतासां परियोजनाभिः जनजातीय क्षेत्रे-सम्पर्क-सुधार: आर्थिक विकासः च भविष्यति ।