चीनस्य हांगचोओ इत्यत्र नवदश-तमे एशियाई क्रीडास्पर्धासु भारतेन अद्य यावत् अशीति-पदकानि विजितानि । अद्य लक्ष्यभेदन-स्पर्धायां ज्योति सुरेखा – वेन्नम, ओजस देवताले इत्यनयोः युगलेन कोरिया- दलस्य सो-चैवोन जू-जाहून इत्यनयोः युगलः पराजित्य स्वर्ण पदकम् अधिगतम् । लक्ष्यभेदन-स्पर्धायां भारतस्य इदं प्रथमं स्वर्णपदकम् अस्ति । सममेव पञ्चत्रिंशत्- किलोमीटर- मितस्य रेस वॉक- मिक्स्ड टीम इत्यस्यां स्पर्धायां रामबाबू-मंजूरानी इत्यनयोः युगलेन कांस्य पदकं विजितम् ।
स्कवॉश इत्यस्याः मिक्स्ड डबल्स क्रीडायां अनाहत- सिंहः अभय-सिंहः इत्यनयोः युगलः उपान्त्यचक्रे मलेशियायाः आइफा बिनती-अज़मान मोहम्मद-याफिक- बिन-कमाल इत्यनयोः युगलेन पराजित्य कांस्यपदकेन सुन्तुष्टिम् अधिगतः। भारतीय-महिला- मुष्टा- मुष्टि- क्रीडिका परवीन हुड्डा मुष्टा- मुष्टि-क्रीडायां उपान्त्यचक्रे चीनी ताइपे इत्यस्य लिन-यू-टिंग इत्यनया पराजित्य कांस्यपदकम् विजितवती ।











