पाणिनिसंस्कृतविश्वविद्यालयस्य परिसर: रीवानगरे स्थापित: जात: ।।

वार्ताहरः – डॉ.दिनेश: चौबे, उज्जयिनी

मध्यप्रदेशशासनस्य उच्चशिक्षा विभागेन उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य प्रथम:परिसर: रीवानगरस्य लक्ष्मणबागपरिसरे स्थापित: । राज्यशासनेन संस्कृतभाषाया: प्रचारप्रसारदृष्ट्या प्राचीनज्ञान-विज्ञानस्य संवर्धनम् एवञ्च संस्कृते निहितं ज्ञाननिधिं अवज्ञातुम् अनुसंधानं च् कर्तुम्। राज्यशासनेन 15 अगस्त 2008 तमे वर्षे प्रदेशस्य प्रथम: महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य स्थापना उज्जयिन्यां कृता । प्रदेशस्य मुख्यमंत्री: श्रीशिवराजसिंहचौहानमहोदयस्य अध्यक्षतायां तत्कालीनराज्यपाल:एवञ्च विश्वविद्यालयस्य कुलाधिपति: डॉ. बलरामजाखड़महोदयस्य करकमलाभ्याम् अस्य विश्वविद्यालयस्य शुभारंभ: अभूत्। सम्प्रति अस्मिन् विश्वविद्यालये संस्कृतभाषाया: पारंपरिकविषयै: सह व्यावसायिकपत्रोपाधिप्रमाण पत्रीयपाठ्यक्रमाणाञ्च संचालनं जायते। संस्कृतक्षेत्रं विस्तारयितुं शासनेन विश्वविद्यालयस्य प्रथमपरिसर: लक्ष्मणबागपरिसरे ,रीवानगरे स्थापित: । अस्मिन् 2023- 24 शिक्षणसत्रारभ्य अध्ययन- अध्यापनस्य व्यवस्था च् कल्पिता अस्ति। अस्य परिसरस्य प्रथम: प्रभारिनिदेशक: डॉ. तुलसीदास परोहामहोदय: विभागसमन्वयक: अध्यक्ष: साहित्यविभागश्च महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालय:,उज्जयिनी मध्यप्रदेशशासनोच्चशिक्षा विभागेन अग्रिमादेशपर्यन्तं नियुक्त: वर्त्तते । विंध्यक्षेत्रस्य रीवानगरे संस्कृतविश्वविद्यालयस्य परिसरस्य स्थापनया स्थानीया: छात्रा: अत्रैव अध्ययनं कर्तुं शक्यन्ते संस्कृताध्ययनाय अन्यत्र कुत्रापि गमनस्य आवश्यकता नास्ति। रीवानगरं आदिकालादैव संस्कृतं संस्कृत्या: प्रमुखकेन्द्रम् अस्ति ।अतः अनया दृष्टया विश्वविद्यालयस्य प्रथमपरिसर: अत्र स्थापित: अस्ति।
विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारमेनन्महोदयेनोक्तं यत् शासनस्य अयं निर्णय: संस्कृतजगति स्वर्णकाल: इति रूपेण स्मर्यते । संस्कृतस्य क्षेत्रं वर्धमानम् अस्ति। विश्वविद्यालयस्य कुलसचिवेन डॉ.दिलीपसोनीमहोदयेन शासनस्य निर्देशानुसारं रीवापरिसरे सर्वा व्यवस्था कृता वर्तते। विन्ध्य क्षेत्रस्य सर्वे संस्कृतानुरागिण: शासनस्य अयं निर्णयेन प्रफुल्लिता: सन्ति।