पाणिनिसंस्कृतविश्वविद्यालयस्य कार्यपरिषद: उपवेशनं सुसम्पन्नम्

वार्ताहरः – डॉ.दिनेश: चौबे, उज्जयिनी

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य कार्यपरिषदः उपवेशनं ऑक्टोबरमासस्य चतुर्तमेदिनाङ्के
बुधवासरे पूर्वाह्ने ११:०० वादनतः विश्वविद्यालयस्य पतञ्जलिभवने अभवत् । सभायाः अध्यक्षता विश्वविद्यालयस्य माननीयकुलपतिः आचार्यविजयकुमारः सीजीमहोदयः अकरोत्। सभायाः आरम्भे सर्वैः कार्यपरिषद्सदस्यैः शासनस्य उच्चशिक्षाविभागस्य आभारम् अभिनन्दनं च कृतम्। यतोहि उच्चशिक्षाविभागस्य प्रयासेन विश्वविद्यालयस्य प्रथमपरिसर; रीवानगरे उद्घाटितः।
उपवेशने सेवानिवृत्त: आचार्य: किशनपालविश्वकर्मामहोदयस्य विश्वविद्यालयस्य लोकपालपदे नियुक्ते: अनुमोदनं कार्यपरिषदि अभवत्। विश्वविद्यालयपरिसरे
कुलपति: आवास: अतिथिनिवास: एवञ्च वाहनस्थानकस्य निर्माणस्य प्रस्तावा: स्वीकृता: उपवेशने पूर्वे निर्णीतानां निर्णयानां पालनप्रतिवेदनस्य अनुमोदनं चाभवत्। कार्यपरिषद्: उपवेशने राज्यपालमहोदयेन नामांकिता: सदस्या: श्रीराजेंद्रझालानी, श्रीसुशीलवाडिया, श्रीमतीकिरणशर्मा, श्रीमतिउषाठाकुर, एवञ्च विश्वविद्यालस्य डॉ. उपेंद्रभार्गव: डॉ.संकल्पमिश्र: उपस्थिता: आसन् । उपवेशने वित्तनियंत्रक: श्रीदिनेशचौरसियामहोदय: विशेषामंत्रित सदस्यरूपेण उपस्थित: आसीत् । कार्यपरिषदि कुलसचिवेन डॉ. दिलीपसोनी महोदयेन कार्यसूच्या: प्रस्तुतीकरणं कृतम्।