वृद्धायाः चार्तुयम् (लघु कथा)

आसीत् चित्रपुरम् नाम किमपि नगरं श्रीपर्वतस्य समीपे । “पर्वतस्य शिखरप्रदेशे घण्टाकर्णः नाम राक्षसः प्रतिवसती” ति जनप्रवाद: अवर्तत् ।
अथैकदा कखन चोर पण्टामेका चोरयित्वा वनं गतः, व्याप्रेण च हृतः । तदा सा घण्टा वने एवं अपतत्। अन्यस्मिन् दिने केचन वानराः तत्र आगछन्। कुतुहलेन ता घण्टा हस्ते धृत्वा अधुन्वन् । अकस्मादेव घण्टानादः अजायत् । घण्टानादेन चकिताः ते पुनः पुनः घण्टामधुन्वन्, घण्टाणादं च अकुर्वन् ।
चित्रपुरस्थाः नागरिकाः बार बार पर्वतशिखरप्रदेशात घण्टानादमाकर्णयन् भयाकुलाः ते अचिन्तयन् “नून शिखरप्रदेशे घण्टकर्णः नाम राक्षसः वर्तते यः मनुष्यां स्वादति, घण्टां च वादयति” । एवं च भीत्या पौरजनाः अन्यत्र गन्तुं प्रारभन्त ।
तदा चिन्ताकुलः नृपः उदघोषयत् “यः घण्टकर्णं नाशयेत् तस्मै विपुलं सुवर्णं यच्छेयम् अहम् इति । तत् श्रुत्वा काचन वृद्धा वनं गता । तत्र च कंचित् कालं निभृतम् अतिष्ठत्। वानराः एव घण्टां वादयन्ति इति सा अपश्यत् ।
अन्येद्यः सा वानरेभ्यः मधुराणि फलाणि अयच्छत्। यावत् ते फलभक्षणमग्नाः संजाताः, तावदेव तां घण्टामादाय प्रमुदिता सा नृपं प्रत्यागच्छत्, अवदच्च “राजन् घण्टाकर्णः हतः मया” इति । भुपः तस्यै प्रभूतं सुवर्णमयच्छत् । ततः प्रभृति पौरजनाः घण्टारवं न आकर्णयन्। भयमुक्ताः ते नगर प्रतिन्यवर्तन्त ।