लोकसभा-महुआ मोइत्रा प्रकरण

लोकसभायाः आचार-समितिः तृणमूल कांग्रेस- दलस्य सांसदे महुआ-मोइत्रायां उत्कोचं स्वीकृत्य संसदि प्रश्नानां पृच्छानाम् आरोपैः संबन्धितानां परिवेदनानां श्रवणम् अस्य मासस्य षड्विंशतितमे दिनाङ्के करिष्यति । भारतीय-जनता-पार्टीति दलस्य सांसदः निशिकान्त दूबे आरोपयत् यत् तृणमूल-सांसदः एकस्य व्यवसायिनः वक्तव्ये सति अडाणी समूहस्य प्रधानमन्त्रिणः नरेन्द्र मोदिन: च संबंधे प्रश्न- पृच्छायै उत्कोचं स्वीकृतवती । तृणमूल कांग्रेस सांसदः महुआ मोइत्रा आरोपान् खंडितवती।
उत्कोचं स्वीकृत्य संसदि प्रश्नानां पृच्छारोपे भाजपेति दलस्य सांसदः निशिकांत दुबे भ्रष्टाचार रोधि-नियामकं लोकपालं समक्षं तृणमूल कांग्रेस-दलस्य सांसदं महुआ मोइत्रां विरुद्धय परिवेदनं कृतवान् । तेन आक्षिप्तं यत् सुश्री मोइत्रा भारते आसीत् यदा तस्याः संसदीय-अभिज्ञान- पदस्य प्रयोगं दुबई-नगरे जातम् आसीत् एषा सूचना राष्ट्रिय सूचना-विज्ञान केंद्रेण एन.आई.सी. इत्यनेन गवेषणा- अभिकरणेभ्यः प्रदत्ता । अन्तर्जालीय-सूचना द्वारा भाजपा-सांसदेन उक्तं यत् एक: सांसदः अल्प-धनेभ्यः देशस्य सुरक्षां न्यासरूपेण प्रदत्तवान्। भाजपेति दलस्य सांसदः उक्तवान् यत् प्रधानमंत्रिणं, वित्त मंत्रालयं केंद्रीय अभिकरणानि समेत्य संपूर्ण भारतस्य सर्वकारीय-व्यवस्था एन.आई.सी. इत्यस्य अभिकरणस्य प्रयोगं कुर्वन्ति। श्री दुबे प्रत्यक्ष रूपेण सांसद- मोइत्रायाः नामं न प्रयुक्तवान् यस्यां व्यवसायिनः दर्शन हीरानंदानी इत्यस्य आदेशे अदाणी-समूहं प्रधानमंत्री नरेंद्र मोदीं चेत्येतान् संलक्ष्य लोकसभायां प्रश्न- पृच्छायै उत्कोचं स्वीकरणस्य पक्षपातस्य आरोपं अस्ति ।