इजरायल-फलिस्तीन-सङ्घर्षः – भारतस्य सहायकहस्तः

भारतेन युद्धग्रस्तायां गाजा- पट्टिकायाम् फलस्तीन- जनेभ्यः मानवीय साहाय्य-सामग्री सम्प्रेषिता। एकस्मिन् सामाजिक- अन्तर्जाल-सन्देशे विदेश मन्त्रालयस्य प्रवक्ता अरिंदमबागची कथितवान् यत् भारतीय वायु सैन्य बलस्य C-17 सप्तदश इति विमानं भूयोऽपि सार्ध षड्- नमितां औषधिय-सहायतां द्वात्रिंशत् आपत् – साहाय्य सामग्रीम् – चावलम्ब्य मिस्रदेशस्य अल- अरिश- इत्यस्मै विमानपतनस्थानकाय सम्प्रेषितम्। साहाय्य वस्तुषु आवश्यक जीवन-रक्षक- औषधयः शल्य- वस्तूनि पटगृहाणि शयन – स्यूताः जलशोधन- रसायनम् चेत्यादिनि वस्तूनि समाविष्टानि विद्यन्ते। एतानि साहाय्य वस्तूनि मिस्र – गाजयोः मध्ये राफाह-सीम्ना फिलिस्तीनं प्रति सम्प्रेषयिष्यन्ति ।
ध्यातव्यं यत् अजय- अभियानान्तर्गतं विमानद्वयम् इजराइल – देशात् एकसप्तत्यधिक- चतुश्शतं भारतीय- नागरिकान् नई- दिल्ली आनीदवति। इजराइलदेशतः अजय-अभियानान्तर्गतं चतुःसप्तत्यधिकद्विशतं भारतीय नागरिकान् अवलम्बय चतुर्थं विमा नवदिल्ल्यां इन्दिरागांधी – अन्ताराष्ट्रिय विमानपत्तन स्थानाकम् सम्प्राप्तवत्। केन्द्रीय मन्त्रिणौ वी.के. सिंह:, कौशल किशोरश्च प्रत्यावर्तिकेभ्यः भारतीय- नागरिकेभ्यः त्रिवर्ण- ध्वजं प्रदत्तवन्तौ । विदेश मन्त्रालयेन संघर्ष: निध्याय चतुर्विंशति होरापर्यन्तं प्रचल्यमाण: नियन्त्रण कक्षः संस्थापितः । कक्षोऽयं स्थितो ध्यानं प्रददन् साहाय्यं उपलब्धयति। भारतीय- नागरिकेभ्य एकं अष्टशून्यं शून्यं एकं एकं अष्टसप्त नवसप्त इति निःशुल्क दूरभाषसंख्या अपि उपलब्धा अस्ति। भारतीय- ऋतु – विभागः 11
गाजा- गतात् सप्ताहात् इजरायल- देशः फिलिस्तीनवासिन: नागरिकान् उत्तरीय पट्टीक्षेत्रं त्वरित रिक्तं कर्तुं संचेतनां प्रसारितवान्। वार्तानुसारेण दशलक्षजना: दक्षिणीय- गाजा पट्टी- क्षेत्रं प्रति पलायनं कृतवन्तः । इजरायल- देशस्य सुरक्षा बलैः हमास दलस्य इतोऽपि भट: (कमांडरं) बिलाल- अल- केद्रा मारितः। एतदन्तरा-फिलिस्तीनस्य स्वास्थ्य मन्त्रालयेन सूचितं यत् इदानी यावत् गाजा-पट्टी- क्षेत्रे ऊनत्रिंशदधिक- त्रयोविशतिशतं फिलिस्तीनीयाः नागरिका: मृताः अनेके च आहताः । पूर्वे इज़राइल-देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू एवं विपक्षिनेता बेनी गैट्ज इत्येताभ्यां संयुक्तरूपेण फिलिस्तीनी – हमास आतंकवादी समूहं विरुध्य आपात्कालीन सर्वकारस्य घोषणा विहिता । एतस्मिन् प्रधानमन्त्री नेतन्याहू, विपक्षी- नेता गैट्ज, वर्तमान- रक्षामन्त्री योव गैलेंट एवं पर्यवेक्षक सदस्यत्वेन इतोऽपि द्वौ शीर्षाधिकारिणौ सम्मिलितौ भविष्यतः। एतावता उभय पक्षयोः सप्तशताधिक- त्रिसहस्रजनाः मुत्युमुपगताः सन्ति । अस्मिन् संघर्षे एतावता प्राय: द्वाविंशतिः अमेरिकीयजनाः मृत्युमुपगताः सन्ति ।