प्रधानमन्त्री नरेन्द्रमोदी अक्तूबर मासस्य विन्शति दिनाङ्के उत्तर प्रदेशस्य साहिबाबादस्थलात् देशस्य प्रथमं प्रादेशिक- रैपिड ट्रांजिट सिस्टम इति रेलयानं उद्घाटितवान्। प्रथमे चरणे सप्तदशकिलोमीटरात्मक दूरता सम्पन्ना भविष्यति । अस्मिन् मार्गे गाजियाबाद-गुलघर- दुहाई-रेलस्थानकानि भविष्यन्ति देशस्य प्रथमं रैपिडएक्स-रेलयानमिंद नमो भारत इत्यनेन नाम्ना ज्ञास्यते । श्रीमोदी अस्मिन् क्षेत्रीय-रैपिड रेलयाने यात्रामपि कृतवान् सहैव यात्रिभिः समं वार्तां विहितवान्। यात्रिणः स्वीयानुभवान् अस्य रेलयानस्य च स्वाविषये श्वः आरम्भ सामान्य नगरिकेभ्यः प्रारम्भा भविष्यति। अत्रावसरे प्रधानमन्त्रिणा बेंगलुरुमेट्रोसेवायाः पूर्वीय पश्चिम- पर्यन्तं वीथेः खण्डद्वयं राष्ट्राय समर्पितम्। एते खण्डे स्तः- बैयप्पनहल्लीतः कृष्णाराजापुरा अपरञ्च केंमेरीत: चल्लाघट्टायावत्।
सार्वजनिक कार्यक्रम सम्बधोयता प्रधानमन्त्रिणा अभिव्यक्तं यत् भारतस्य एषा प्रथमां रैपिड रेलयान सेवा नमोभारत-रेलयानमिदं नवीन भारतस्य नवयात्रां नवसकल्पं च परिभाषयति । श्रीमोदी अवदत् यत् अस्य दशवर्षस्य समापने अमृतभारत-वन्देभारत- नमोभारत् इत्येतेषां संयोजन भारतीय रेलयानसेवायाः आधुनिक प्रणाल्याः प्रतिनिधित्वं करिष्यति।











