वित्त मन्त्री निर्मला सीतारामन् अद्य कोलम्बो नगरे भारतीय मूलस्य तमिल – नागरिकाणां श्रीलंकायाम् आगमनस्य अवसरे द्विशताब्द-स्मृति समारोहे भागं भजिष्यति । सा भारत-श्रीलंका- व्यापार-शिखर-सम्मेलनम् अपि सम्बोधयिष्यति । सम्मेलनस्य विषयः अस्ति – सम्पर्क-वृद्धि- समृद्धिभ्यः परस्पर-सहयोगम् । अस्य उद्देश्यं द्वयोः एव देशयोः मध्ये आर्थिक सहयोगस्य व्यापारस्य च वर्धनम् अस्ति । वित्तमंत्री, भारत-श्रीलंका- राजनयिक संबन्धानां रणनीतिक महत्वं समधिकं सुदृढं कर्तुं श्रीलंकायाः राष्ट्रपतिना प्रधानमंत्रिणा च सह अपि वैचारिक-विमर्शं करिष्यति । श्रीलंकायां धार्मिक स्थलानां सौर- विद्युतीकरणाय सन्धि-ज्ञापने हस्ताक्षरं भविष्यति । इयं परियोजना भारतस्य चत्वारिंशत् – लक्षाधिक-द्वयशीति-कोटि- रुप्यकाणां सहयोगेन समारप्स्यते । सा जाफना – त्रिंकोमाली क्षेत्रयोः भारतीय स्टेट बैंक इत्यस्य द्वयोः नूतन-शाखयोः अपि उद्घाटनं करिष्यति । श्रीलङ्कादेशे एसबीआई शाखान्तर्गतसञ्चालनस्य अतिरिक्तं एसबीआई श्रीलङ्का योनो एप् तथा ऑनलाइनबैङ्किंग् इत्येतयोः माध्यमेन सशक्तस्य डिजिटलमञ्चस्य माध्यमेन प्रेषणं निरन्तरं करोति।











