वार्ताहरः – आचार्यः विशालप्रसादभट्टः
संस्कृतकाव्यशास्त्राणि पुराणानि च संस्कृतछन्दोबद्धानि सन्ति। यतो हि छन्दोमयानि पद्यानि स्मरणे सरलानि श्रवणे च सुमधुराणि भवन्ति। अतः संस्कृतवाङ्ममयपद्यानि पठनाय संस्कृतछन्दोज्ञानं परमावश्यकम्। आचार्यः शैलेशकुमारतिवारी
संस्कृतछन्दसां शुद्धोच्चारणाय आदौ गतियतिमात्राज्ञानं परमावश्यकम्। सर्वेणापि छन्दनिर्माणकर्त्रा महाकविकालिदासप्रणीतानि महाकाव्यानि सम्यक्तया पठनीयानि तदनन्तरं संस्कृतछन्दसु पद्यानि विरचयितुं प्रयतनीयम्। आचार्या कमला पाण्डेया
अनौपचारिकसंस्कृतशिक्षकः,केन्द्रीयसंस्कृतविश्वविद्यालयः,नवदेहली त्रयोविंशत्यधिकद्विसहस्रतमाब्दस्य नवम्बरमासस्य पञ्चमे दिनाङ्के,रविवासरे आभासीयसंस्कृतच्छन्दसः कार्यशालायाः समापनसमारोहः सुसम्पन्नो जातः। प्रप्रथमं कार्यक्रमस्य सञ्चालकेन आचार्यविशालप्रसादभट्टेन अतिथीनां परिचयपुरस्सरं वाचिकं स्वागताभिनन्दनं विहितम् ।कार्यक्रमस्य मुख्यातिथिः हरिद्वारस्थस्य उत्तराखण्डसंस्कृतविश्वविद्यालयस्य
वेदवेदाङ्गसंकायाध्यक्षः व्याकरणविभागाध्यक्षश्च आचार्यः शैलेशकुमारतिवारिवर्यः समुपस्थितः आसीत्। कार्यक्रमाध्यक्षारूपेण वसन्त-कन्या-स्नातकोत्तर-महाविद्यालयः,कमच्छा,वाराणसी इत्येतस्य संस्कृतविभागाध्यक्षचरा आचार्या कमला पाण्डेया – महोदया समुपस्थिता आसीत्।
तत्र कार्यक्रमस्यास्य शुभारम्भः वशिष्ठव्यासेन वैदिकमङ्गलाचरणेन कृतम्। तदनु नम्रता पाठकः सरस्वतीवन्दनां गीतवती। तदनन्तरम् आस्था शुक्ला संस्कृतस्वागतगानेन अतिथीनां स्वागतं कृतवती। तदनु मम संस्कृतम् इत्यस्याः यूट्युबवाहिन्याः संस्थापकेन अस्याः कार्यशालायाः संयोजकेन आचार्यगोपालमिश्रवर्येण अतिथीनां स्वागतं विधाय कार्यशालायाः समग्रमपि वृत्तं प्रस्तुतम्। वृत्तकथने संयोजकेनोक्तं यदियं छन्दसः कार्यशाला अक्टुबरमासस्य नवमदिनाङ्कादारभ्य नवम्बरमासस्य पञ्चमदिनाङ्कं यावत् समायोजिता । कार्यशालायामस्यां नैके विद्वांसः समागत्य चतुर्दश-छन्दसां प्रशिक्षणं प्रदत्तवन्तः। भारतस्य विभिन्नेभ्यः राज्येभ्यः प्रतिभागिनः निःशुल्कं पञ्जीकरणं कृत्वा छन्दसां ज्ञानं प्राप्तवन्तः।
अनन्तरं क्रमशः मनीषा वैद्या,नीतू ,सन्ध्या गुप्ता, सुरेशः ध्यानी,चेत्येते प्रशिक्षार्थिनः कार्यशालायाः स्वानुभवं प्रकटितवन्तः। पश्चाच्च आनन्दिता कुमारी,विपुलः,दीनदयालः सैनी,श्वेता कुमारी,प्रियांशी, पूजा कुमारी चेत्येते प्रशिक्षार्थिनः नैकेषु छन्दसु नैकान् श्लोकान् गीतवन्तः। अनन्तरं नीलाक्षी श्रीवास्तवा मे जनगणराष्ट्रनिवासिनः इति संस्कृतदेशभक्तिगीतं प्रस्तुतवती।
तत्रावसरेsस्मिन् कार्यक्रमस्य मुख्यातिथिना आचार्येण शैलेशकुमारतिवारिवर्येण स्वीयोद्बोधने प्रोक्तं यत् ‘छन्दस्’ इति शब्दस्य निष्पत्तिः ‘चदि’ (आह्लादने)- “असुन्” ‘आदेः छकारादेशश्च’ इत्थं प्रकारेण भवति। शब्दोsयं ‘चदि’ आह्लादने , ‘छदि’ आवरणे आच्छादने वा इति धातुना निष्पन्नो भवति। यस्यार्थो आच्छादनं नियमनं च भवति।
छन्दांसि छादनात्। छन्दयति असुन् इति छन्दः (वेदे भावे असुन्)। छादयति वा एनं पापात् कर्मणः इति छन्दः।
यत् छदयति (आवरणयति) भावान् रसान् अलङ्कारादींश्च तच्छन्दः।
अस्माकं काव्यशास्त्राणि पुराणानि च छन्दोबद्धानि सन्ति। यतो हि पद्यमयी वाणी श्रवणेपि सुमधुरा भवति। छन्दोमयपद्यानि स्मरणाय च सरलानि भवन्ति। सर्वप्रथमं संस्कृतछन्दोनिर्माणकौशलप्राप्तये संस्कृतभाषाज्ञानं परमावश्यं भवति।अभिप्रायस्य अभिव्यक्तिः तदैव संस्कृतेन कर्तुं शक्यते। तदर्थं संस्कृतशब्दानां पर्यायवाचिपदानि ज्ञातव्यानि तेषां च संकलनम् अभ्याशश्च करणीयः। तदनु क्रियापदान्यपि ज्ञातव्यानि। सर्वेषामपि धातूनां दशसु लकारेषु रूपाणि ज्ञातव्यानि। तदा छन्दसां रचना सरलतया कर्तुं शक्यते। पुनश्च महोदयः स्रग्विणी छन्दसि पद्यरचनां विधाय सरलतया छन्दोनिर्माणमपि बोधितवान् , येन प्रतिभागिनः छन्दोज्ञानं प्राप्य अत्यन्तं सन्तोषं प्रकटितवन्तः।
तदनन्तरं कार्यक्रमस्यास्य अध्यक्षा आचार्या कमला पाण्डेया – महोदया अध्यक्षीयोद्बोधने प्रोक्तवती यदहं कार्यक्रमस्य प्रशिक्षार्थिनां मुखात् विविधछन्दसु विविधान् श्लोकान् कार्यशालानुभवं च श्रुत्वा अत्यन्तम् आनन्दमनुभवामि। पुनश्च महोदया प्रशिक्षार्थिनां श्लोकोच्चारणगतदोषाणां परिमार्जनं विधाय परिष्काराशांन् चाप्यसूचयत् । महोदयया प्रोक्तं यत् सर्वादौ महाकविकालिदासविरचितानि काव्यानि पौनः पुण्येन पठनीयानि तदा काव्यरचनायोग्यतासामर्थ्यं समुत्पाद्य उत्तमोत्तमं काव्यं रचनीयम्। येन अस्माकं रचितं काव्यमपि कल्पान्तजीवितं स्यादिति। श्रीशिवम् चतुर्वेदिना सर्वेषां कृते धन्यवादज्ञापनं कृतम्।
अन्ते श्रीसुरेशध्यानी शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिं कृतवान्। कार्यक्रमेsस्मिन् गूगलमीटमाध्यमेन 45 प्रतिभागिनः श्रोतारश्चोपस्थिताः आसन्। कार्यक्रमस्य सफलतया सञ्चालनं आचार्यविशालप्रसादभट्टेन विहितम्। जयतु संस्कृतं विश्वपोषकम्।











