नेपाले आगतात् भूकम्पात् मृतकानां संख्या चत्वारिंशदुत्तरैकशतं जाता। ह्यः रात्रौ नेपालदेशस्य उत्तर पश्चिमीय भागे षड़दशमलव चतुर्मितात् रिएक्टर स्केल मितात् आगतात् भूकम्पात् पञ्चपञ्चाशदधिकैकशतं जनाः व्रणिताः जाताः । भूकम्पः तदा आगताः यदा सर्वे जना निद्रायाम् आसन्। नेपालदेशीयस्य दूरदर्शनानुसारि जाजरकोट- रूकुमजनपद भूकम्पात् एतस्मात् अत्यधिक प्रभावितौ जातौ। अधिकारिभिः कथितं यत् मृतकेषु जाजरकोटस्य नलगढनग-पालिकायाः उप-महापौर : सरितासिंहः समाविष्टो वर्तते। राष्ट्रिय-भूकम्प-निरीक्षण अनुसन्धान केन्द्रेण प्रख्यापितं यत् हयः दूरापन्नस्य भूकम्पस्य अनन्तरं नवपञ्चाशदधिकैकशतं वारं कम्पनम् अनुभूतम् । अत्रान्तरे प्रधानमन्त्रिणा पुष्पकमलदहल प्रचण्डेन प्रभावितानां क्षेत्राणां निरीक्षणम् कृतम् । तत्रैव साहाय्योद्धार कार्याणि प्रचलन्ति । काठमाण्डूनगरे भारतीय दूतावासेन सहायतार्थ आपात्कालिकी दूरभाष संख्या 00977-9851316807 इति प्रसारिता । प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना नेपालदेशे भूकम्पहानौ स्वीयदुःखम् अभिव्यक्तम्। एकस्मिन् सन्देशपटले असौ कथितवान् यत् संवदेनावधौ एतस्यां भारतं नेपालदेशीयजनैः सह उपस्थितं वर्तते। यथासंभव प्रयासायापि तत्परं अस्ति । अस्माकं संवेदना: प्रभावितेभ्यः जनेभ्यः सर्वदा सन्ति ।











