सोनायाः माता करण्डेन शाटिकायां वर्णमुद्राणं करोति। सोना अवदत् “अम्ब, अहम् अपि मुद्राणं करोमि ” इति । अम्बा सोनायै एकं लघुं वस्त्रखण्डं, कांश्चन वर्णान् च दत्तवती । वस्त्रमुद्रण-वस्तुभिः प्रकोष्ठः पूरितः आसीत्। अम्बा अवदत् “सोने! बहिः उपविश्य मुद्रणं कुरु, मम मुद्रण- ध्वनिं सावधानतया श्रुत्वा ।” सोना बाह्ये एकां लघु-उत्पीठिकायाम् उपाविशत्। यदा निःशब्दम् आसीत्, तदा सोना अवगतवती यत् अम्बा करण्डे वर्णलेपनं कुर्वती अस्ति इति। सोना अपि तदा स्वकरण्डे वर्णलेपनं करोति । ‘थप्’ इति शब्दस्य श्रवणेन सा वस्त्रस्य उपरि मुद्रणं करोति । निःशब्दम् – ‘थप्’ निःशब्दम् – ‘थप्’ निःशब्दम् – ‘थप्’ अम्बा सोना च युगपत् कार्यम् अकुरुताम्। परन्तु, एतदतिरिच्यापि सोनया अन्यः ध्वनिः श्रूयते “चुन्-चनन्- चुन्”, सः ध्वनिः तां स्माययते। किञ्चित् कालानन्तरम् अम्बा आकारयत्। “सोने मम कुञ्चिकाः दृष्टवती वा, मया न दृष्यन्ते”। सोना मातुः समीपे आगच्छत्। तस्याः कटीं परितः हस्तौ प्रसार्य आलिङ्गितवती । “सोने, नाऽयं क्रीडासमयः ” परितः पश्यन्ती अम्बा अवदत् । “मया कपाटिकातः वर्णाः ग्रहीतव्याः, मह्यं कुञ्चिकाः आवश्यक्यः, कृपया गवेषय” । सोना मातुः कटिप्रदेशे निवेशितस्य अञ्चलस्य भागम् आकर्षत्। “चुन्-चनन्-चुन्” इति अञ्चले बद्धाः कुञ्चिकाः शब्दम् अकुर्वन्। अहो! कुञ्चिकाः अत्र सन्ति इति त्वं कथं जानासि ?” इति अम्बा अश्चर्येण अपृच्छत्।
“अम्ब, मया शब्दः सावधानं श्रुतः” इति सोना हसन्ती उक्तवती। निःशब्दम् – ‘थप्’ – चुन् निःशब्दम् – ‘थप्’ – चुन् “सोने! त्वम् अतीव चतुरा असि” अम्बा अवदत् हर्षेण ।











