राष्ट्रियस्पर्धा 2023 – पदकसङ्ख्यायां महाराष्ट्रं शीर्षस्थाने अस्ति

महिलानां सुदीर्घ-कूर्दन-प्रतियोगितायां केरलस्य आंसी-सोजनः स्वर्ण पदकं विजितवती अपि च महिलानां जैवलिन-प्रक्षेपणम् इति क्रीडायां हरियाणायाः शिल्पा-रानी स्वर्ण पदकं विजितवती । पञ्चाशत्-मीटरमितस्य फ्री-स्टाइल इति तरण-स्पर्धायां विर्घावाल- खरे स्वकीयमेव कीर्तिमानं संत्रोव्य नूतनकीर्तिमानं स्थापितवती ।
डेकेथलॉन स्पर्धायां नव-दिल्ल्याः तेजस्विन शंकर: स्वर्ण पदकं प्राप्तवती अपरत्र तमिलनाडु- राज्यस्य पुरुषदलम् आन्ध्र प्रदेशस्य महिला-दलं च चतुश्शत-मीटरमितस्य रिले इति धावन- प्रतियोगितायां विजयम् अध्यगच्छताम् । महाराष्ट्रेण षट्पञ्चाशत् स्वर्ण पदकैः सह द्वाचत्वारिंशदुत्तर- एकशतं पदकानि विजित्य पदक तालिकायां स्वकीय-वर्चस्वं यथावत् घृतम् अस्ति।