महिला सैन्यकर्मिभ्यः मातृत्वावकाशः

संप्रति महिला सैन्यकर्मिभ्यः अपि मातृत्व, शिशु पालन, दत्तक ग्रहणावकाशाः समान रूपेण एव प्राप्स्यन्ते। रक्षा मंत्रिणा राजनाथ सिंहेन अनेन सम्बद्धः प्रस्ताव स्वीकृतः । अवकाशोयं सेनायां समग्र पदेषु कार्य कुर्वद्भ्यः महिला सैन्य कर्मिभ्यः समानरूपेणेव संप्राप्स्यते सा अधिकारी स्यात्, वा न वा ।
रक्षा मंत्रालयेन उक्तं यत् सुविधेयं महिलानां पारिवारिक सामाजिक विषयाणां च समाधाने दीर्घकालावधये महत्वाधायिनी भविष्यति । अनेन सेनायां तासां कार्याचरणानां स्थितिः सुदृढा भविष्यति अपि च ताः स्वीय कार्य पारिवारिक जीवनयोर्मध्ये संतुलन संस्थापयिष्यन्ति ।
सेनायां सर्वाभ्यः महिला कार्मिकेभ्यः मातृत्व, शिशु पालन, दत्तक ग्रहणावकाशानां समुपलब्धतायाः सुविधा सेनायाः त्रिभ्यः अङ्गेभ्यः वृहत्तमं परिवर्तनम् अस्ति । विंशत्यधिक-नवदशशत- तमे वर्षे सेनायां सैन्यारक्षि दले महिला सैनिकानां नियुक्तिः समारब्धा ।