प्रधानमंत्री नरेन्द्र मोदीना गुजरातस्य एकता नगरे स्टैच्यू ऑफ यूनिटी इत्यत्र राष्ट्रिय एकता दिवस समारोहे भागं भजितम् ।

प्रधानमन्त्रिणा देशस्य प्रथमं गृह मन्त्रिणः जयन्त्योपलक्ष्ये एकता नगरे स्टेच्यू ऑफ यूनिटी इत्यत्र सरदार वल्लभ भाई पटेलाय पुष्पांजलिम् समर्पितम् । श्री मोदीना एकता नगरे षट्याधिकैकशतं कोटि यावत् रुप्यकाणां विभिन्न विकास परियोजनानाम् उद्घाटनं शिलान्यासं च विहितम् । सः पञ्चतमे आरंभ मॉड्यूल इत्येतस्मिन् अष्ट नवति तमस्य कॉमन फाउंडेशन कोर्स इत्येतस्य प्रशिक्षु अधिकारिणः संबोधितवान् ।
ध्यातव्यं यत् भारते प्रतिवर्षं ३१ अक्टोबर् दिनाङ्के राष्ट्रियैकतादिवसः आचर्यते ।भारतस्य राजनैतिकैकीकरणे प्रमुखा भूमिकां निर्वहन्तस्य सरदारवल्लभभाई पटेलस्य जन्मदिवसस्य निमित्तं अयं दिवसः आचर्यते ।अयं दिवसः भारतसर्वकारेण २०१४ तमे वर्षे आरब्धः ।
अस्मिनवसरे श्री मोदिना उक्तं यत् तुष्टीकरणस्य राजनीतिः देशस्य विकासे महति बाधास्ति। सः प्रोक्तवान् यत् ये तुष्टीकरणं कुर्वन्ति ते अस्य संकटैः अनभिज्ञाः सन्ति । सः उक्तवान् यत् राजनैतिकानाम् एकं वर्ग सकारात्मक परिवर्तनान् द्रष्टुं असमर्थः वर्तते । श्री मोदिना जनानां अस्य वर्षस्य निर्वाचनानाम् अपि च विंशतिः चतुर्विंशतिः तमे वर्षे आगामि लोकसभा निर्वाचनानां प्रति ध्यानं आकर्षितम् । श्री मोदिना प्रोदिरितं यत् केचन् राजनीतिज्ञाः भारतस्य विभाजनं कृत्वा स्व हितं साधयितुमुत्सुकाः सन्ति । प्रधानमन्त्रिणा उक्तं यत् किमपि अभियानं भारतस्य कृते असंभवं नास्ति इति । श्री मोदिना कोविड-19, आतंकवाद मुक्त कश्मीरस्य, सप्तत्यधिक त्रिशतम् अनुच्छेदस्यापि चर्चा अकरोत् । श्री मोदिना उक्तं यत् देशः विकासशीलः वर्तते स्व धरोहरमपि संरक्षयनस्ति। सः उक्तवान् यत् विश्वः जी- विंशतिः शिखर सम्मेलने भारतस्य क्षमतां दृष्ट्वा आश्चर्यचकिताः सन्ति । प्रधानमन्त्रिणा उक्तं यत् वयं गर्वम्अनुभवामः यत् आगामि वर्षेसु भारतं विश्वस्य तृतीया वृहत्तमार्थव्यवस्था भविष्यति।
श्रीमोदिना एकता नगरे एकस्मिन् कार्यक्रमे जनसभाम् एकतायाः प्राणं स्विकारितम् । लौह पुरुषस्य अष्टचत्वारिन्स्तोत्तरैकशत तमं जयन्त्योपलक्ष्ये प्रधानमन्त्रिणा सीमा सुरक्षा दलस्य अपि च राज्यारक्षि दलस्य राष्ट्रीय एकता दिवस पथ संचालनस्य निरीक्षणम् अकरोत् । अस्मिनवसरे प्रधान मन्त्रिणां समक्षं सीआरपीएफ महिला बाइक इति दलस्य निर्भीक प्रदर्शनस्य, बीएसएफ महिला पाइप बैंड, गुजरात महिला रक्षिनां नृत्यादि प्रस्तुतिनां आयोजनं सञ्जातम्।
अस्मिनवसरे देशे ऐक्य धावनस्यायोजनं जातम्। केंद्रीय गृहमंत्री अमित शाहेन राष्ट्रिय राजधान्यां दिल्लयां मेजर ध्यान चंद राष्ट्रिय क्रीडांगणे हरित् ध्वजं प्रदर्श्य ऐक्य धावनस्यारम्भं विहितम् । अवसरेस्मिन् केन्द्रीयमंत्री- अनुराग – सिंह- ठाकुरः, नित्यानंद-रायः, निशिथ-प्रमानिकः, अजय कुमार मिश्रः, मीनाक्षी लेखी चेत्यादयः उपस्थिताः आसन् । अस्मिन् अवसरे गृहमन्त्री जनान् एकता-प्रतिज्ञां अपि प्रशासितवान् ।