दिल्ल्या सर गंगाराम चिकित्सालय मार्ग-स्थे बाल भारती पब्लिक स्कूल इत्याख्ये प्रशासनेतर विद्यालये त्रिदिवसीय राष्ट्रिय संस्कृतोत्सव- प्रदर्शन्याः भव्यं उद्घाटनम् अद्य शुक्रवासरे सञ्जातम्। प्रधानाचार्यस्य दिनिर्देशे अस्यां प्रदर्शन्यां आधुनिक विश्वस्य उद्देश्यस्य अनुरूपमेव आधुनिक दृशा छात्राणां ज्ञानाभिवृद्धये, संस्कृतस्य अध्ययनम्प्रति तेषाम् अभिप्रेरणाय च विविधाः उपायाः प्रकल्पिताः सन्ति। अथ च प्रदर्शन्याः औद्घाटनिकसत्रे अस्माकं प्राचीन- विद्वत्-प्रवरैः ऋषि-मुनिभिः विरचितस्य विपुल-वाद्वयस्य संरक्षणाय चापि विचार-विमर्श-पूर्वक प्रतिष्ठितैः विद्वद्भिः मार्गदर्शनं कृतम्। एषः कार्यक्रमः दिल्लीस्थ- प्रशासनेतर विद्यालयेषु संस्कृत भाषायाः संवर्धनार्थम् विभिन्न माध्यमेन बलवत्तरं सहयोग प्रदाय समेषां मार्ग प्रशस्ती करणम् अपि करिष्यति ।
अनेन भव्य आयोजनेन संस्कृत-विषयाणां माहात्म्य-बोधन-पूर्वकं छात्राः संस्कृताध्ययनोत्सुकाः संस्कृताध्ययन-शीलाः च भूत्वा निजोत्कर्षम् अनुभविष्यन्ति इति तत्र समागतैः विद्वद्भिः प्रोक्तम्।
संस्कृत-भाषा-प्रणीतानां वेद-वेदाङ्ग-उपनिषद् चेत्यादि विषया: चापि तत्र प्रदर्शिताः सन्ति । अस्मिन् कार्यक्रमे संस्कृति मन्त्रालयस्य अन्तर्गतम् इन्दिरा- गान्धि राष्ट्रिय कला केन्द्रस्य भारत-विद्या-परियोजना विभागस्य अध्यक्षः प्रमुखातिथित्वेन उपस्थाय निज प्रेरक वचोभिः छात्रान् भारतीयां शिक्षा व्यवस्था बोद्धुं प्रैरयत् । अपि च छात्रैः प्रश्न- माध्यमेन निज-जिज्ञासा: अपि विदुषां पुरतः उपस्थापितः आसन् ।











