भारतस्य राष्ट्रपतिः २०२३ वर्षस्य विकलाङ्गानाम् सशक्तिकरणार्थं राष्ट्रियपुरस्कारान् प्रदाति

राष्ट्रपतिः द्रौपदी-मुर्मू: दिव्यांग-शक्तीकरणे बलं दत्तवती । अद्य नवदिल्ल्यां अन्ताराष्ट्रिय- दिव्यांगजन-दिवसमुपलक्ष्य राष्ट्रियपुरस्कारं वितरणं कुर्वन्ती सा प्रोक्तवती यत् विश्वस्य जनसंख्यासु पञ्चदश-प्रतिशतं दिव्यांगजनाः एव सन्ति। राष्ट्रपतिः प्रोक्तवती यत् दिव्यांगानां संघर्षः अपि च तेषाम् उपलब्धयः जनानां कृते प्रेरणाः सन्ति। राष्ट्रपतिः दिव्यांग-शक्तीकरणस्य दिशि उल्लेखनीय-प्रयासाय जनानां, संस्थानां, संघटनानां, राज्यानां मण्डलानां च कृते त्रिंशत् पुरस्काराणि वितरितवती।
अवसरेस्मिन् सामाजिकन्यायधिकारिता-मन्त्रिणाः डा. वीरेन्द्र कुमारेण उक्तं यत् दिव्यांगजनेभ्यः सर्वकारीय-योजनानां लाभप्रदानाय एककोटितोप्यधिक-विशिष्ट-दिव्यांग- परिचयपत्राणि विनिर्मितानि । तेनोक्तं यत् दिव्यांगानां कृते वृत्यवसरेषु चतुःप्रतिशतं यावत् आरक्षणस्यापि प्रावधानं कृतमस्ति। डॉ. वीरेन्द्रेण उक्तं यत् दिव्यांगानां समग्रविकासे भारतीय- सांकेतिक भाषा-संस्थानानि अपि च दिव्यांग-क्रीडा-प्रशिक्षण-केन्द्राणि महत्वपूर्णां भूमिकां निर्वहन्ति।