कालिदासदिवसस्य उपलक्ष्ये विद्वतसङ्गगोष्ठया: आयोजनं सुसंपन्नम् ।

वार्ताहरः – डॉ.दिनेश: चौबे, उज्जयिनी

कार्तिकशुक्लदेवप्रबोधिन्यैका दश्यां शुभपुण्डतिथौ उज्जयिनीस्थस्य कालिदाससंस्कृताकादमी, विक्रमविश्वविद्यालय: तथा च महर्षिपाणिनिसंस्कृत वैदिकविश्वविद्यालयस्य
संयुक्ततत्वावधाने, कालिदास स्मृतिप्रसंगस्यनन्तर्गते विद्वतसंगोष्ठी आयोजिता आसीत्। प्रातः नववादने महाकविकालिदासस्य आराध्या: देव्या: मन्दिरे गढ़कालिकायां वागर्चनं जातं तत: एकादशवादने अकादमीपरिसरे महाकवि कालिदासस्य प्रतिमाया: उपरि पुष्पमल्यार्पणं तदनु अभिरंगनाट्यगृहे कालिदासस्य साहित्योपरि केन्द्रितस्या:
विद्वतसंगोष्ठया:आयोजनम् अभवत् गोष्ठया: शुभारंभ: सरस्वत्या: पूजनेन, दीपदीपनेन वैदिकमंगलाचरणेन च जात: । अकादम्या:निदेशकेन डॉ. गोविंदगन्धेवर्येण कार्यक्रमस्य प्रास्ताविकम् उपस्थितानाम् अतिथिनां पुष्पमल्यार्पणेन उत्तरीयवस्त्रेण च स्वागतं विहितम् । कार्यक्रमे मुख्यातिथिरूपेण महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य मान्यकुलपति: आचार्यविजयकुमारसीजीवर्य: उपस्थितः आसीत् । महोदयेन कालिदासस्य साहित्यस्य विषये उक्तं यत् महाकविकालिदासस्य स्वीकार्यता सम्पूर्णविश्वे अस्ति
महाकविकालिदासस्य ग्रन्थानाम् उपरि नेकै: विदेशीविद्वतभि: विस्तारेण लिखितं । महोदयेन नेकै: उद्धरणै: सारगर्भितं व्याख्यानं प्रदत्तम् । सारस्वतातिथिरूपेण विक्रमविश्वविद्यालयस्य कुलपतिचर: आचार्यबालकृष्ण शर्ममहोदय: सभाध्यक्षरुपेण प्रभारिकुलपति: विक्रमविश्वविद्यालयस्य आचार्य: शैलेन्द्रकुमारशर्ममहोदय: स्वविचारान् उपस्थावितवन्तौ। कार्यक्रमे नगरस्य सुधीविद्वान्स: पाणिनि-विक्रम-विश्वविद्यालयस्य आचार्या: छात्र-शोधच्छात्रा:तथा च पत्रकारबांधवा: उपस्थिता: आसन् ।