स्वास्थ्य परिवार कल्याण मंत्रालयः नेशनल-बोर्ड आफ़ एग्जामिनेशन इन मेडिकल- साइंसेज इति च अद्य एकस्य राष्ट्रव्यापिनः जन-जागरूक-प्रशिक्षण-कार्यक्रमस्य कार्डियोपल्मोनरी-रिससिटेशन-सीपीआर इत्यस्य आयोजनं कृतवन्तौ। नव दिल्लयां, आयोजिते एतस्मिन् कार्यक्रमे स्वास्थ्य परिवार कल्याण मंत्री डॉ. मनसुख मांडवियाः अपि समागतः। सीपीआर इत्यस्य प्रशिक्षणस्य महत्वस्य विषये वार्ता कुर्वन् श्री मांडवियाः कथितवान् यत् कार्यक्रमस्य उद्देश्यम् हत्स्पन्दनघातस्य विषयस्य उपरि तात्कालिक चिकित्सा प्रतिक्रियायाः विषये जागरूकतायाः संवर्धनं अस्ति। असौ प्रवोचत् यत् इत्स्पन्दनघातस्य रोगिणां चिकित्सालयप्रापणात् पूर्व समुचित प्राथमिकोपाचरं मेलिष्यति तर्हि ते रोगिणः स्वस्थाः भविष्यन्ति। मंत्री उक्तवान् यत् आ देशे विंशति लक्षधिकाः प्रतिभागिनः सीपीआरइति प्रशिक्षणम् प्राप्तवन्तः। आकाशवाण्या सह वार्ता साधयन् नेशनल बोर्ड ऑफ एग्जामिनेशन इन मेडिकल साइंसेज इत्यस्य अध्यक्षः डॉ. अभिजात शेठः निगदितवान् यत् कार्यक्रमस्य उद्देश्यम् अधिकाधिक नागरिकेभ्यः सीपीआर प्रशिक्षणम् प्रदानम् अस्ति इति। देशे एषः प्रथमः सीपीआर-जागरूकताकार्यक्रमः अस्ति यः राष्ट्रियस्तरस्य आयोजनं कृतम् अस्ति । अस्मिन् अभियाने छात्राः, व्यावसायिकाः, पैरामेडिकलकर्मचारिणः च सहितं प्रतिभागिभ्यः एकस्मिन् एव उपविष्टे ऑनलाइन-रूपेण प्रशिक्षणं दत्तम्।
प्रशिक्षणे जनानां सहभागितायाः प्रशंसाम् कुर्वन् मण्डविया अवदत् यत्, “कोऽपि कस्मिन् अपि समये हृदयरोगेण पीडितः भवितुम् अर्हति तथा च वर्धितं ज्ञानं प्रशिक्षणं च समीचीनप्रक्रियाणां प्रशासने सहायकं भविष्यति, जीवनं च रक्षिष्यति।











