बुन्देलखण्डविमर्शशोधपत्रिकायाः विमोचनम्।

वार्तासंयोजक: डॉ.दिनेश: चौबे

मध्यप्रदेशस्य दतियामण्डलस्य प्रथमा सान्दर्भिकी समीक्षिता च ऑनलाइन शोधपत्रिका “बुंदेलखण्डविमर्श” 6 दिसंबर २०२३ दिनाङ्के बरौदीसंस्कृतिसंस्कृतसंस्कारशिक्षासमितिः द्वारा विमोचिता प्रकाशिता च। नूतनभारतीयशिक्षानीतेः मूलभूतभावनायाः समृद्धये भारतीयज्ञानपरम्पराधारिता बहुविषयाध्ययनक्षेत्रेषु च एषा शोधपत्रिका प्रकाशिता। विभिन्नविषयाणां विशेषज्ञाः विद्वान्सः प्राध्यापकाः शोधकर्त्तारः स्वतन्त्रविद्वान्सः सामाजिकचिन्तकाश्च पत्रिकायामस्यां स्वस्य शोधपत्रं प्रकाशयितुं शक्नुवन्ति। पत्रिकायामस्यां संस्कृत-हिन्दी-आङ्ग्लेति त्रिषु भाषासु शोधपत्राणि प्रकाशयितुं शक्यन्ते। पत्रिकायां मुख्यतया बुण्देलखण्डप्रदेशस्य संस्कृतविदुषां कृतयः रचनाः तेषां व्यक्तित्वं कर्तृत्त्वं सम्पूर्णभारतस्य कलाः संस्कृतिः वास्तुः शिल्पं पुरातत्त्वादिविषयेषु केन्द्रितं भविष्यति। पत्रिकायाः ​​प्रकाशनं वर्षे त्रिवारं भविष्यति अर्थात् चतुर्मासेषु एकस्य अंकस्य प्रकाशनं सुनिश्चितं भविष्यति। अस्य प्रथमवर्षस्य प्रथमाङ्कः दिसम्बरमासे प्रकाशितः यस्मिन् आहत्त्य अष्टौ विविधविषयाणां शोधपत्राणि प्रकाशितानि सन्ति।
शोधपत्रिकायाः ​​मुख्यसम्पादकः डॉ. उपेन्द्रभार्गवः सम्पादकः डॉ.आनन्दप्रकाशशुक्लः सहसम्पादकौ डॉ. कपिलभार्गवः शिरीन कुरैशी च सन्ति । प्रबन्धनतकनीकिसम्पादनं विवेककुमारशर्मा राजभार्गवः वाई.तेजस्वी कुर्वन्ति। लखनऊनगरस्य प्रख्यातः विद्वान् आचार्यः श्यामदेवमिश्रः भोपालस्य प्रो. नीलभतिवारी नागपुरस्य प्रो.प्रसादगोखले प्रो.परागजोशी प्रो.सावित्रीबाईफुलेपुणेविद्यापीठस्य डॉ.दिनेशरसालेन सह उज्जैनस्य डॉ.अखिलेशकुमारद्विवेदी भोपालस्य डॉ.रमणमिश्रः डॉ.कृष्णकान्ततिवारी दतियायाः डॉ.लवलेशमिश्रः डॉ.रमाआर्या इन्दौरस्य डॉ.रूपालीसारये साँच्याः डॉ.प्रभाकरपाण्डेयः ग्वालियरस्य डॉ.हिमांशुद्विवेदीप्रभृतयः सदस्याः सन्ति। शोधपत्रिकायाः ​​द्वितीयाङ्कः २०२४ तमस्य वर्षस्य एप्रिलमासे प्रकाशितो भविष्यति ।