उत्तराखण्ड सुरङ्गे अवरुद्धाः सर्वे ४१ श्रमिकाः १७ दिवसानन्तरं निष्कासिताः

उत्तराखण्डस्य सिल्क्यारासुरङ्गे धारितानां ४१ श्रमिकाणां कृते १७ दिवसीयः प्रतीक्षा अन्ततः समाप्तः अभवत् । मुख्यमन्त्री पुष्करसिंहधामी विगत दिवसे घटनास्थले साहय्योद्धारकार्याणां निरीक्षणं कृतवान्। तत्रैव प्रधानमन्त्री नरेन्द्रमोदी अद्य अवरुद्धेभ्यः श्रमिकेभ्यः प्रचल्यमानानाम् आपत्साहाय्योद्धार-कार्याणां विषये मुख्यमन्त्रिणा पुष्करसिंह धामी इत्यनेन सह वार्ता कृतवान्। प्रधानमन्त्रिणा सुरङ्गायाम् अवरुद्‌धैः श्रमिकैः सहैव आपत्साहाय्योद्धार -कार्येषु संलग्नजनानां सुरक्षायै निर्दिष्टः।
प्रधानमन्त्री नरेन्द्रमोदी उत्तराखण्डे सिलक्यारा-सुरङ्गायाः बहिः आगतैः श्रमिकैः सह बााँ कृतवान्। कथितवान् च यत् अनेन साहाय्याभियानेन अद्भुत समूहकार्यं उद्धृतम्। तत्रैव प्रधानमन्त्री साहाय्योद्धारभियानस्य प्रशंसामपि कृतवान्। अवधेयं वर्तते यत् राज्ये चतुश्शतं होराभ्य/ अवरूद्धानां श्रमिकाणां निष्कासनान्तरं ह्यः राष्ट्रं सन्तोषम् अनुभूतवत्। सिलक्यारातः बरकोटपर्यन्तं निर्माणाधीनायाः सुरङ्गायाः स्खलनेन मासस्यास्य द्वादशदिनांकतः एव एते श्रमिकाः अवरुद्धाः जाताः। श्रमिकाणां निष्कासनान्तरं एव प्रधानमन्त्री दूरभाषयन्त्रेण तैः समं वार्ता सहैव तेषां कुशलक्षेमं पृष्टवान्। एते श्रमिकाः सुरङ्गायां प्रतिदिनं भ्रमणं योगाभ्यासम् च कुर्वन्ति स्म। एतैः श्रमिकैः प्रधानमन्त्रिणे उत्तराखण्डस्य मुख्यमन्त्रिणे पुष्करसिंहधामिने साहाय्योद्धारबलेभ्यः जनेभ्यश्च धन्यवादाः कथिताः। श्रीमोदिन कथितं यत् अनेन इदं सिद्धं जातम् यत् सर्वैः मानवतायाः परिश्रमस्य च अद्भुतोदाहरणं प्रकटितम्। साहाय्याभियान मिदं भावात्मकं वर्तते। प्रधानमन्त्रिणा श्रमिकाणां धैर्यस्य वीरतायाश्च प्रशंसा विहिता। एतदतिरिच्य उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अद्य राज्य चिन्यालीसौड-सामु शयिक-स्वास्थ्यकेन्द्रे निष्कासितैः श्रमिकैः सह मेलनं कृतवान्। यत्र ते श्रमिकाः चिकित्सकीयनिरीक्षणे सन्ति। सर्वेभ्यः श्रमिकेभ्यः एकलक्ष्यरूप्यकाणि वितरिष्यते।