कक्षायां रटरटरटनम् (बाल कथा)

पट-पट-पट विद्यालयस्य छदौ वर्षाबिन्दवः पटपटायन्ते। “नमस्ते शिक्षकवर्य” इति बालाः गीत्वा उक्तवन्तः। शिक्षकोऽपि – “नमस्ते, नमस्ते, नमस्ते!” यदा शिक्षकः कृष्णफलकाभिमुखो भवति… कश्चित् वतायानात् कूर्दित्वा अन्तः आगच्छति। रट-रट-रट!
बालाः आक्रोशन् – “पृष्ठतः पश्यतु शिक्षकवर्य! मण्डूकः, प्रकोष्ठं प्रविष्टवान्। “एवम्?” शिक्षकः आश्चर्याभिनयेन उक्तवान्। “कीदृशोऽस्ति भवदीयः मण्डूकः?” “पीनः, स्थूलश्च”, इति आकिफः। “हरितः चित्रितश्च”, इति रानी। “आर्द्रः, श्लेष्मलश्च”, इति मुन्नी। रट-रट-रट!
संस्कृतकक्षायां शिक्षकः अवदत् – “त्रयोदशं पृष्ठम् उद्घाटयत।” “पृष्ठतः पश्यतु शिक्षकवर्य”, इति फरा उक्तवती, “मण्डूकः भवतः आसन्दे उपविष्टः अस्ति।” “उत्तमम्। कामम् उपविशतु तत्र।”
रट-रट-रट!
“कुत्र निक्षिप्तं मया उपनेत्रम्?” इति गणितकक्षायां शिक्षकः अपृच्छत्। “पृष्ठतः पश्यतु शिक्षकवर्य, मण्डूकः तद् धरति!” इति विशालः अवदत् । “चिन्ता मास्तु, तद्विना अपि सुष्ठु द्रष्टुं शक्नोमि ।” रट-रट-रट! विज्ञानकक्षायां शिक्षकः अवदत् – “जतुकाः वृक्षेभ्यः लम्बन्ते।” “उपरि पश्यतु शिक्षकवर्य, मण्डूकः व्यजनात् अधोमुखः लम्बते!” इति आकिफः।
“स्वं जतुकां मन्यते सः मण्डूकः किम्?” रट-रट-रट!
भोजनसमये शिक्षकः पृष्टवान् – “कुत्र सन्ति मम आलुकप्ररोटाः? मया इतोऽपि त्रयः बद्धाः आसन्।” “पृष्ठतः पश्यतु शिक्षकवर्य, मण्डूकः भवतः आलुकप्ररोटान् भक्षयति।” इति मुन्नी। “शोभनम् ! कस्मैचित् मम पाकः रोचते!” रट-रट-रट!
क्रीडासमये शिक्षकः अवदत् – “कुत्र गतं पादकन्दुकम्?” “पृष्ठतः पश्यतु शिक्षकवर्य, सद्यः मण्डूकेन लक्षः साधितः।” इति रानी।
“उत्तमम्! सः अस्माकं दले योजनीयः।” रट-रट-रट!
दिनस्य अन्तिमः घण्टानादः अभवत्। शिक्षकः हस्तचालनेन बालान् अभिनन्द्य द्विचक्रिकाम् आरुह्य प्रस्थितः। “पृष्ठतः पश्यतु शिक्षकवर्य, मण्डूकः भवतः स्यूतस्य उपरि उपविष्टः अस्ति।” “उत्तमम्। मया सङ्गः प्राप्तः।” “अद्य अहम् एकवारमपि न छलितः।” रट-रट-रट!