आन्ध्रप्रदेशस्थायां के.एस.एन.महिला डिग्री कलाशालयायाम् अनन्तपुरे नवदेहलीस्थेन केन्द्रीयसंस्कृतविश्वविद्यालयेन सञ्चालितस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य उद्घाटनसमारोहः पुस्तकवितरणकार्यक्रमश्च समायोजितोऽभवत्तत्र प्रप्रथमं कार्यक्रमातिथिभिः दीपप्रज्ज्वालनेन समारोहस्यास्य शुभारम्भो विहितः। तत्रावसरेऽस्मिन् छात्राभिः सरस्वतीवन्दना ध्येयमन्त्रश्च प्रस्तुतः।
तदनु केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन अतिथीनां परिचयपुरस्सरं स्वागताभिनन्दनं कृतम्। केन्द्राधिकारिणा डा० के.काशीविश्वेश्वरशर्मणा अतिथिभ्यः मङ्गलवस्त्रेण पुस्तकानि च समर्प्य स्वागतं विहितम्। कार्यक्रमाध्यक्षेण उपप्राचार्येण डा० लक्ष्मी रंगय्यामहोदयेन संस्कृताध्ययनस्य महत्तां प्रतिपादयन् कथितं यत् संस्कृतं वैज्ञानिकी भाषा वर्तते अतः सर्वेषां व्यक्तित्वविकासाय संस्कृतं महत्त्वपूर्णं स्थानमावहति।
सारस्वताथिना विवेकानन्द – प्रभुत्त्व कलाशालायाः कमलानगरस्य संस्कृतशिक्षकेण डा० सुधामवंशिना प्रोक्तं यत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। भारतीयसंस्कृतेः सभ्यतायाः आचारव्यवहारज्ञानाय संस्कृताध्ययनं करणीयम्। कार्यक्रमस्य विशिष्टातिथिना संस्कृतभारती-आन्ध्रप्रदेशस्य प्रान्ताध्यक्षेण जे.कुमारचन्द्रशेखरवर्येण प्रोक्तं यत् संस्कृतम् अतीवसरला मधुरा समृद्धा बोधगम्या च भाषा वर्तते। संस्कृतं भारतस्य भाषा वर्तते। दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरं प्रविश्य संस्कृतेन व्यवहारः कर्तुं शक्यते। महोदयेन प्रमाणपत्रीयपाठ्यक्रमे प्रविश्य संस्कृतभाषाध्ययनाय सर्वाः छात्राः प्रेरिताः। मुख्यातिथिना आन्ध्रप्रदेशस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्राणां राज्यसंयोजकेन डा० उपद्रष्ट-वेंकटरमणमूर्तिवर्येण प्रोक्तं यत् संस्कृतं भारतस्य आत्मा वर्तते। अतः अस्माभिः सर्वैरपि भारतीयैः गौरवेण श्रद्धया सोत्साहेन च जीवने संस्कृतभाषा पठनीया। संस्कृतवाङ्मये विद्यमानायाः भारतीयज्ञानपरम्परायाः अध्ययनं कृत्वा भारतीयज्ञानविज्ञानस्य आधारेण भारतस्य सर्वविधसमुत्कर्षः करणीयः। संस्कृते मधुराणि काव्यानि मञ्जुलानि गीतानि अमृतमयानि सुभाषितानि प्रेरककथाश्च वर्तन्ते। अतः अस्माभिः प्राप्तस्य स्वर्णिमावसरस्य लाभं स्वीकृत्य साभिमानं संस्कृतं पठनीयम्। अन्ते केन्द्रशिक्षकेण सर्वेभ्यः समागतेभ्यः अतिथिभ्यः कृतज्ञतां समर्प्य शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिः विहिता। कार्यक्रमेऽस्मिन् आहत्य 100 शताधिकाः छात्राः उपस्थिताः अभवन्। वन्दे संस्कृतमातरम्।












Vahut utkrisht