संसद सदन – शतं एकचत्वारिंशत् विपक्षी सदस्याः निलम्बिताः जाताः

लोकसभासदनस्य सुरक्षाभङ्गमुद्दिश्य कृतविरोधाचरणेन विपक्षसदस्याः घटनायाः विषये सातत्येन घोषपूर्वकं अशिष्टाचरणम् आचरितवन्तः । ते अस्यां दिशि गृहमन्त्रिणा अमितशाहस्य वक्तव्येन, सहैव सुष्ठुकार्यस्य आग्रहं कुर्वन्तः आसन्। कांग्रेसस्य, टी एम सी, डी.एम.के., जे.डी.यू, इत्यादीनां सदस्या: सुरक्षाभङ्गविषये प्रशासनं विरुध्य घोषं उत्थापितवन्तः।
संसदीय कार्यमन्त्रिणा प्रह्लादजोशिना विपक्षसदस्यानां अशिष्टव्यवहारस्य कारणेन अवशिष्ट शीतकालीनसत्राय निलम्बनस्य प्रस्तावः प्रस्तावितः। संसदीयकार्यमन्त्रिणा प्रह्लादजोशिना प्रोक्तं यत् घटना दुर्भाग्यपूर्णा अस्ति संसदोः सुरक्षासम्बद्धा गम्भीरा घटना अस्ति। सः अवोचत् यत् संसदः सुरक्षां सुदृढां कर्तुं सभापतिः ओम बिडला अचिरमेव दलनेतृभिः सह सभां अकरोत्। सः इदमपि उक्तवान् यत् सांसद्धिः दत्ताः केचन् परामर्शाः पूर्वमेव कार्यान्विताः सन्ति। अग्रेऽपि उपायाः क्रियन्ते इति ओम बिडलामहोदयेन गृहसचिवाय उच्चस्तरीय अन्वेषणार्थं पूर्वमेव पत्रं लिखितमस्ति। एतादृशे गम्भीरे राष्ट्रियविषये राजनीतिः न कर्तव्या इति श्रीजोशी अब्रवीत्। सभापतिः अवोचत् यत् संसदः सुरक्षायाः विषये सर्वे चिन्तिताः सन्ति। संसदः सुरक्षा लोकसभा-सचिवालयस्य दायित्वं वर्तते। सुरक्षासम्बद्धविषयेषु प्रशासनं हस्तक्षेपं न करोति । रक्षामन्त्री राजनाथसिंहः अवदत् यत् अस्मिन् विषये अन्वेषणस्य आदेश: प्रदत्तः तथा च एतादृशेषु संवेदनशील विषयेषु सर्वैः अवधानतापूर्वकं भाव्यम्।
तदनन्तरं विपक्षसदस्यानां सातत्येन अशिष्टव्यवहारस्य कारणेन राज्यसभायाः लोकसभायाः च कुलम् शतं एकचत्वारिंशत् विपक्षि-सांसदाः शेष- शीतकालीन सत्रात् निलंबिताः जाताः । यत् ऐतिहासिकम् अस्ति। पूर्वे , संसदस्य सुरक्षामालक्ष्य प्रधानमन्त्री नरेन्द्रमोदी चिन्ताम् प्रकटीकुर्वन् प्रोक्तवान् यत् एषः गम्भीरः विषयः वर्तते। प्रधानमन्त्री राजनैतिकदलेभ्यः आग्रहं कृतवान् यत् एषः राष्ट्रियसुरक्षायाः विषयः वर्तते, इति कारणतः अस्य विषयस्य राजनीतिकरणं न कुर्वन्तु। श्रीमोदी अवदत् यत् लोकसभा अध्यक्षः अन्वेषणस्य आदेशः प्रदत्तवान्।संसदसुरक्षायां उल्लङ्घनं दुर्भाग्यपूर्ण दुःखदं च इति वर्णयन् सः अवदत् यत् अन्वेषणसंस्थाः अस्य विषयस्य गहनतया अन्वेषणं कुर्वन्ति।प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोक्तं यत् संसदप्रकरणस्य सम्यक् अन्वेषणं करणीयम् यत् पुनः एतादृशी घटना न भवेत् । श्रीमोदी अवदत् यत् अपराधिनां घटनासम्बद्धानां तत्त्वानां ज्ञानं महत्त्वपूर्णम् अस्ति। प्रधानमन्त्रिणा विपक्षीदलेभ्यः संसदि रचनात्मकभूमिकायाः निर्वहनं कर्तुं आग्रहः कृतः यत् अस्मिन् विषये संसदस्य वर्तमानमत्रस्य कार्यान्वयनं विगत दिनद्वयपूर्वमेव स्थगितमस्ति। ध्यातव्यमस्ति यत् अस्मिन्नेव पूर्वे गुरुवासरे आयोजितें सत्रे वरिष्ठमन्त्रिभिः संसदस्य सुरक्षायाः उल्लङ्घनस्य विषयं गम्भीरतापूर्वकं ग्रहीतुं निर्देशः दत्तः सममेव विषयम्य राजनीतिकरणं न कर्तुं संचेतनां अपि अददात्।