आन्ध्रप्रदेशकेन्द्रीयविश्वविद्यालये अनन्तपुरे केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली द्वारा सञ्चालितस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य भव्यतया उद्घाटनसमारोहः एवञ्च प्रथमदीक्षापुस्तकवितरणकार्यक्रमः समायोजितोऽभवत्

वार्ताहरः विशाल प्रसाद भट्टः

आन्ध्रप्रदेशकेन्द्रीयविश्वविद्यालये अनन्तपुरे केन्द्रीयसंस्कृतविश्वविद्यालयः नवदेहली द्वारा सञ्चालितस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य भव्यतया उद्घाटनसमारोहः एवञ्च प्रथमदीक्षा पुस्तकवितरणकार्यक्रमः समायोजितः। तत्रावसरेऽस्मिन् सर्वादौ कार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्वालनेन विहितम् । तदनु केन्द्रछात्रा सुमिता पि. तथा कृष्णप्रिया वैदिकमङ्गलाचरणं सरस्वतीवन्दनां च मधुरस्वरेण गीतवती। ध्येयमन्त्रश्च केन्द्रछात्रः विजयः अवदत् । तदनन्तरं केन्द्रशिक्षकः आचार्यः विशालप्रसादभट्टः मञ्चस्थातिथीनां परिचयपुरस्सरं वाचिकं स्वागतञ्चाकरोत् । तदनु केन्द्रछात्रा श्रीकौस्तुभ , कृष्णप्रिया ,सुमिता पि. च अतिथिभ्यः पुष्पगुच्छं साइंस इन संस्कृतपुस्तकञ्च प्रदाय तेषा‌ं स्वागतसत्कारश्च कृतवती।
प्रास्ताविकोद्बोधने अनौपचारिकसंस्कृतशिक्षकः आचार्यः विशालप्रसादभट्टः अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य महत्तां प्रतिपादयन् केन्द्रस्यास्य समग्रमपिवृत्तं प्रस्तुतवान् ।
कार्यक्रमस्य अध्यक्षतां कुर्वन् तिरुपतिस्थस्य वेंकटेश्वरविश्वविद्यालयस्य कुलपतिः प्रो० वि.वि.एन. राजेन्द्रप्रसादः अध्यक्षीयभाषणे भाषाविज्ञानस्य महत्त्वं प्रतिपादयन् महर्षिपाणिनिना विरचितायाः अष्टाध्याय्याः वैज्ञानिकतां बोधितवान् । सः संस्कृतभाषायां विद्यमानस्य धर्मशास्त्रस्य , राजनीतिशास्त्रस्य तथा अर्थशास्त्रस्य च वैशिष्ट्यं वर्णयित्वा सवान् छात्रान् संस्कृतभाषाध्ययनाय प्रेरयत् ।
कार्यक्रमस्य विशिष्टातिथिः संस्कृतभारत्याः आन्ध्रप्रदेशस्य प्रान्ताध्यक्षः जे.कुमारचन्द्रशेखरः अकथयत् संस्कृतम् अत्यन्तं सहजा सरला वैज्ञानिकी च भाषा वर्तते। संस्कृतभाषा सर्वभारतीयभाषाणां जननी तथा सम्पोषिका च वर्तते । संस्कृतभारती 42 वर्षेभ्यः निखिलेपि विश्वे निरन्तरं दशदिवसीयसरलसंस्कृतसम्भाषणशिबिराणि सञ्चाल्य 20 घण्टासु सरलसंस्कृतसम्भाषणं शिक्षयन्ती वर्तते‌। यस्य फलं वर्तते यत् साम्प्रतं भारते कोटिशः जनाः संस्कृतभाषया परस्परं सम्भाषणं कुर्वन्तः दृश्यन्ते श्रूयन्ते च । अतः यः कोऽपि वा संस्कृतानुरागी अनौपचारिकशिक्षणकेन्द्रेऽस्मिन् प्रवेशं स्वीकृत्य सरलविधिना संस्कृतभाषायाः ज्ञानं सम्प्राप्य स्वीयं जीवनं सुसंस्कृतं कर्तुं शक्नोति ।
कार्यक्रमस्य मुख्यातिथिः आन्ध्रप्रदेशस्थानाम् अनौपचारिकसंस्कृतशिक्षणकेन्द्राणा‌ं राज्यसंयोजकः तथा संस्कृतभारत्याः अखिलभारतबालकेन्द्रप्रमुखः डॉ० उपद्रष्ट-वेंकटरमणमूर्तिः स्वीयोद्बोधने अनौपचारिकसंस्कृतशिक्षणयोजनायाः आरम्भः ,उद्देशः महत्त्वञ्च प्रत्यपादयत्। तेनोक्तं यत् वयं समेऽपि भारतीयाः इति कारणेन प्रत्येकं भारतीयेन स्वजीवने सगौरवं सोत्साहञ्च सम्यक्तया संस्कृतभाषाध्ययनं विधाय संस्कृतशास्त्रेषु विद्यमानं ज्ञानविज्ञानं ज्ञातव्यम् । एतादृशस्य अद्भुतस्य ज्ञानविज्ञानस्य बलेन भारतदेशः पूर्वमपि विश्वगुरुः आसीत् । पुनरपि भारतं संस्कृतवाङ्ममये निहितानां भारतीयविद्याशाखानाम् अध्ययनेन विश्वगुरुपदे प्रतिष्ठापितं भविष्यति। संस्कृतभाषा अत्यन्तं सरला मधुरा बोधगम्या च भाषा वर्तते। सम्प्रति सम्पूर्णेऽपि विश्वे लक्षशः बालाः संस्कृतभाषायाः अध्ययनं कृत्वा संस्कृतसुभाषितानि , गीताश्लोकान् ,संस्कृतकथा, संस्कृतबालगीतानि, संस्कृतदेशभक्तिगीतानि चात्यन्तम् उत्साहेन स्मृत्वा गीत्वा च आनन्दम् अनुभवन्ति ।
अनन्तरं महोदयेन आधुनिकचलच्चित्रगीतानि मधुरेण स्वरेण संस्कृतभाषया गीत्वा संस्कृतभाषायाः माधुर्यस्य आस्वादनं सर्वेभ्यः कारितम्। अनेन सभायां विद्यमानाः सर्वेपि श्रोतारः मन्त्रमुग्धाः सञ्जाताः । तथा चासौ महोदयः प्राप्तस्य स्वर्णिमावसरस्य लाभं स्वीकर्तुं सर्वान् छात्रान् संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमे प्रवेष्टुं न्यवेदयत् । अन्ते अतिथिभिः सर्वेभ्यः पञ्जीकृतेभ्यः संस्कृतभाषायाः अध्येतॄभ्यः प्रथमदीक्षापाठ्यपुस्तकानि एवञ्च विश्वविद्यालयस्य मान्यस्य कुलपतिमहोदयस्य प्रो० एस. ए. कोरिमहोदयस्य पक्षतः संस्कृतभारत्याः साइंस इन संस्कृतपुस्तकानि वितरितानि । अन्ते कार्यक्रमस्य संचालकेन आचार्यविशालप्रसादभट्टेन सर्वेभ्यः समागतेभ्यः अतिथिभ्यः कार्तज्ञ्यं समर्प्य शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिः कृता । कार्यक्रमेऽस्मिन् विश्वविद्यालयस्यास्य शिक्षकाः छात्राश्च आहत्य 50 जनाः समुपस्थाय कार्यक्रमं सफलीकृतवन्तः। जयतु संस्कृतं जयतु भारतम्‌। इति शम्।