स्क्वाड्रन लीडर मनीषा पाढ़ी मिजोरम राज्यपालस्य भारतस्य प्रथमा महिला एड-डी-कैम्प अभवत्

ऐतिहासिकक्षणे मिजोरम-राज्यस्य एडीसी-रूपेण स्क्वाड्रन-लीडराख्या मनीषा-पाढी- महोदयायाः नियुक्तिः राज्यपालेन डॉ. हरिबाबु-कम्भम्पति इत्यनेन कृता। 2015 तमे वर्षे भारतीयवायुसेनायाः अधिकारीभूता, Sqn Leader Padhi भारतीयसशस्त्रसेनायाः प्रथमा भारतीयमहिला ADC (Aide-De-Camp) अस्ति । राज्यपालः एतत् नियुक्तिं महिलानां लैङ्गिकमान्यतां भङ्ग्य विभिन्नक्षेत्रेषु उत्कृष्टता प्रापणस्य उदाहरणमस्तीति उक्तवान् । सः सर्वेभ्यः च आग्रहं कृतवान् यत् एतां विलक्षणां उपलब्धिं सोत्सवं पालयन्त्विति, सदैव हि प्रत्येकस्मिन् क्षेत्रे महिलासशक्तिकरणस्य समर्थनञ्च निरन्तरं कुर्वन्तु । Sqn Leader Padhi ओडिशायाः गंजाम जनपदस्य ब्रह्मपुरतः अस्ति। सा भुवनेश्वरस्य सी वी रमन अभियांत्रिकी- महावि‌द्यालयतः स्नातकपदवीं लब्धवती । इतः पूर्व सा बीदर, पुणे, भटिण्डा इत्यादिषु वायुसेनास्थानकेषु नियुक्ता आसीत्। शब्दकोशपरिभाषानुसारं ‘एड-डी-कैम्पः सशस्त्रसेनायाः एकः अधिकारी भवति यः उच्चपदवीधारकस्य अधिकारीणः सहायतां करोति।’भारते एड्-डी-कैम्पः वर्तमानस्य अपि च पूर्वसहायकानां च सति सम्मानस्य उपाधिः अस्ति।