मातः ! धूतो दशनो मे कश्चिदस्ति । अयं बुनोः प्रथमः असंसक्तः दशनः। सा अधीरा, किन्तु मनाम् भीता। माता वदति- “तव जिह्वया प्रक्षेपणं कुरुष्व।” बुन्वा प्रक्षिप्तं, पुनः पुनः प्रक्षिप्तम्।
मात्रा कथितम्- “अयं दन्तः न उद्युक्तः । किञ्चित् कालम् अपेक्षस्व, स्वयं स्वस्मादेव बहिः आगच्छति । बुनुः पितृसकाशं गच्छति। बुनुः गदति- “पितः ! धूतो दशनो मे कश्चिदस्ति।”
पिता धीरं धीरं दन्तं धूनयति । स वदति – “अयं दन्तः न उपयुक्त:” । “अपेक्षस्व किञ्चित् कालम्। अयं स्वयम् अधःपतति।” किन्तु बुनुः अपेक्षितुं नेच्छति। एकेन सूत्रेण साकं सा धावति तस्याः कक्षं प्रति। सा सूत्रस्य एकं प्रान्तं बध्नाति तस्या दन्तं परितः, अपरं प्रान्तं बध्नाति द्वारग्रन्थिं परितः।
बुनुः भूतलम् उपवसति। सा अपेक्षते । पुनः पुनः अपेक्षते।
परिशेषे बुनुः अपेक्षमाणा परिश्रान्ता भवति। सा द्वारत: सूत्रं मुञ्चते, सा उत्तुङ्गदीर्घश्वासेन सह शय्याम् उपवसति ।
तस्याः भगिनी चुन्नुः किञ्चित् परं प्रविशति। द्वारं निर्दिश्य सा वदति-“अयम् आसीद् एकः भयङ्करः वृत्तान्तः”। “कथं मया न आकृष्यते इदं सूत्रम्, तव दन्तः अनेन (सूत्रेण) सह अवश्यमेव बहिः आगच्छति”।
चुन्नुः तस्याः अङ्गुलिम् अदशत्। बुनुः तस्याः नयने निमीलते। तस्याः मुखं व्याददाति। “एकं, द्वे, त्रीणि!” चुन्न्वा आकृष्यते। “अहो!” बुनुः चित्करोति । चुन्नुः गदति- “अयं न उपयुक्तः, अपेक्षस्व किञ्चित् कालम्। अयं स्वयम् अधःपतति।”
बुन्वा उक्तम्-“अयं दन्तः न कदापि बहिः आगच्छति।” माता ब्रवीति- “यदा वयं लघ्व्य: आस्म, तदा वयं पटले अस्माकं दतः अक्षिप्याम। मूषिकं च अवदाम तस्य दन्तान् अस्मभ्यं प्रदानाय।” यस्माद् वयं मूषिकस्य दन्तानामिव समर्थान् दन्तान् अयाचामहि। बुनुः धावति क्रन्दति च। “मुषिक! मुषिक! अत्र तव कृते मे बृहद्दन्तः अस्ति। यदि त्वम् इमं रोचसे, तर्हि कृपया आगच्छ दूरं च नय।” तस्यां रात्रौ, बुनुः स्वप्ने एकं महाकायं मूषिकं पश्यति। मूषिकः तस्य दन्तयोः मध्ये किञ्चित् ज्वलद् धरति । सः अवतिष्ठते, मुग्धदृष्टौ तां प्रति पश्यति। अनन्तरं वेगेन विवरं धावति। शीघ्रं बुनुः जागर्त्ति । सा जिह्वया दन्तं प्रक्षिपति।
किन्तु तत्र न किमपि अस्ति। किं तया ग्रस्तम्? यदा सा स्वपिति, तदा किं कोऽपि तं (दन्तं) बहिः निक्षिपते? कुत्र स दन्तः।
अत्र। अनन्तरम् उपधाने। बुनुः दन्तं चिनोति, बहिः च निक्षिपते। “मूषिक! मषिक! कृपया मे दन्तं गृह्णाण, नवीनं दन्तं देहि।”- सा वदति ।
सा पटले तस्याः दन्तं क्षिपति मातरं च वदितुं अभ्यन्तरं धावति।











