वार्ताहरः – सुहास आपटे, पुणं
प्रथमे दिने २०७ विधायकाः शपथ -वचनम्, उक्तवन्तः। येषु द्वादश विधायकाः एतादृशाःये ,हिंदी वा आंग्ल भाषांविहाय संस्कृतेन शपथ-वचनम् उक्तवन्तः। यत्र प्रदेशस्य निर्धनतमेषु विधायकेषु परिगण्यमानः रतलाम जिलायाः मौलाना क्षेत्रतः’ भारती आदिवासी पार्टी ‘ इत्यस्य विधायकः कमलेश्वर डोडियारवर्यः आंग्ल भाषायां शपथ-वचनम् उच्चारितवान्। भोपाल मध्य क्षेत्रस्य कांग्रेस विधायकः अरिफ मसूदवर्येण उर्दू माध्यमेन शपथ-वचनम् उदितम्। अत्र विशेषः अंशः अयम् यत् संस्कृतभाषायां शपथ -वचनम् वदन्तः सर्वे विधायकाः ‘ भाजप ‘ पक्षतः सन्ति। कांग्रेसस्य ६६ विधायकेषु एकः अपि संस्कृतेन शपथं न उक्तवान्। संस्कृतं देवभाषा उच्यते। विधानसभायाः विशेष- सूत्रस्य प्रथमे दिने सोमवासरे सामयिक अध्यक्षः गोपाल भार्गववर्यः १०७ विधायकेभ्यः शपथं दत्तवान्। मङ्गलवासरे अवशिष्टेभ्यः विधायकेभ्यः शपथं दानं भविष्यति। प्रथमे दिने आदौ मुख्यमन्त्री डा.मोहन यादववर्यः,नेता प्रतिपक्षः उमंंग सिंधारः, उपमुख्यमंत्री राजेन्द्र शुक्लवर्यः ,जगदीश देवडा,पूर्वमुख्यमन्त्री श्रीः शिवराज चौहान वर्यः एतैः सह १५ वरिष्ठाः शपथं गृहीतवन्तः। ततः परम् विधान सभा क्षेत्र क्रमेण शपथ-दानम् अभवत्। संस्कृतेन शपथम् उदितवन्तः सर्वे विधायकाः भाजपायिनः। येषु दमोह जिलायाः जबेरा क्षेत्रतः विधायकः धर्मेन्द्र लोधी,रीवा जिलायाः मउगंज क्षेत्रतः प्रदीप पटेल,सीधीतः रिती पाठक, जबलपुर (उ)तः अभिलाषः पाण्डे,डिंडोरी जिलायाः शहपुरातः ओमप्रकाश धुर्वे,बालाघाटस्य लांजीतः राजकुमारः कर्राए,कटंगीतः गौरव पारधी,रायसेन जिलायाः उदयपुरातः नरेन्द्रः पटेल,भोपाल(द.)तःभगवानदास सबनानी,राजगढस्य
सारंगपूरतः गौतम टेटवाल,शाजापूर (जि.शुजालपूर)तः इंदर सिंह परमार, देवास जिलायाः खातेगावतः आशीष शर्मा च संस्कृतेन शपथ-वचनम् उक्तवन्तः। कांग्रेसस्य कोऽपि विधायकःसंस्कृतेन शपथ-वचनम् न उक्तवान्। सर्वे हिंदी माध्यमेन एव शपथं उक्तवन्तः।केवलं अरीफ मसूदः उर्दू माध्यमेन शपथं गृहीतवान्। पूर्वमुख्यमन्त्री कमलनाथस्य विदेशयात्रायां विद्यमानस्य कारणात् सः विशेष-सत्रेशपथं न स्वीकरिष्यति।











