वार्ताहरः -डॉ.दिनेश चौबे, उज्जयिनी
नवदेहलीस्थ भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीना भारतीयभाषासमितिः,उज्जयिनीस्थ महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेन्द्रम् इत्यनयोः संयुक्ततत्त्वाधाने चतुर्तमेदिनाङ्के प्रातः सार्धदशवादने गुरुवासरे विश्वविद्यालयस्य योगेश्वरश्रीकृष्ण भवने संस्कृतध्येयवाक्यानां विश्लेषणम् इति विषयिण्याः त्रिदिवसीयराष्ट्रियकार्यशालायाः उद्घाटनम् अभवत्।
विश्वविद्यालयस्य देवासमार्गस्थे परिसरे समारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन, दीपदीपनेन च जातः। तदनु वैदिकमङ्गलाचरणम्, सरस्वतीवन्दना विश्वविद्यालयस्य कुलगानञ्च अवभत् ।
अथितिनां स्वागतं विश्वविद्यालयस्य कुलपतिवर्येण, कुलसचिवमहोदयेन च् कृतवन्तौ । कार्यशालाया: प्रस्तावना , वाचिकस्वागतम् ,अतिथिपरिचयः च कार्यशालासंयोजकेन डॉ.अखिलेशकुमारद्विवेदी महोदयेन विहितम्।
कार्यक्रमे मुख्यातिथिरूपेण विराजमानेन विक्रमविश्व विद्यालयस्य कुलपतिवर्येण अखिलेशकुमारपांडेयमहोदयेन उक्तं यत् संस्कृतं ज्ञान-विज्ञानस्य भाषा वर्त्तते संस्कृते निहितं ज्ञानविज्ञानम् अत्यन्तं पुरातनं लोकोपकारकम् अस्ति ।
संस्कृतस्य विज्ञानस्य च समन्वयेन भारतं पुनः विश्वगुरु: भवितुं शक्यते। संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। कार्यक्रमस्य अध्यक्षः विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारसीजीमेनन्महोदय: आसीत् । महोदयेन उक्तं यत् संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। भारतं नानाभाषाभि: समृद्धराष्ट्रं वर्त्तते। संस्कृतं तासां भाषाणां मुकुटमणि: अस्ति। संस्कृते निहितानां भाषावैज्ञानिकानां तत्वानाम् अन्वेषणमन्वरतं भारते जायमानम् अस्ति। भारतस्य सर्वा भाषा: संस्कृतात् उद्भूता: अनुप्राणिता: च सन्ति। कार्यशालायामस्यां भारतीयभाषासमित्याः उद्देश्यानुगुणं सस्कृतध्येयवाक्यानां सरलसंस्कृतभाषया, हिन्दी- आङ्ग्ल भाषाभ्याञ्च संसाधकैः अनुवादकार्यं सम्पादितम्।
कार्यक्रमस्य सञ्चालनं समन्वयकेन डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम् । कार्यक्रमेSस्मिन् विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या:, छात्रा:, शोधच्छात्राः, नगरस्य गणमान्यजनाः, पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।











