भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। संस्कृतं भारतस्य चिरपुरातनी नित्यनूतना च भाषा वर्तते। इयं भारतीयसंस्कृते सम्पोषिका प्राणवाहिका च भाषा वर्तते – आचार्यः विशालप्रसादभट्टः
संस्कृतं भारतस्य आत्मतत्त्वं वर्तते। संस्कृतवाङ्मये भारतस्य अमूल्यं ज्ञानं विज्ञानं निहितं वर्तते अतः अस्याः देवभाषायाः अध्ययनं परमावश्यकम् – डा० के. काशीविश्वेश्वरशर्मा
आन्ध्रप्रदेशः , अनन्तपुरम् चतुर्विंशत्यधिकद्विसहस्रतमाब्दस्य जनवरीमासस्य प्रथमे दिनाङ्के नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षणम् अपि च संस्कृतभारती-आन्ध्रप्रदेशः इत्येतयोः संयुक्ततत्त्वावधानेन समायोजितस्य दशदिवसीयसंस्कृतसम्भाषणवर्गस्य समुद्घाटनसमारोहः तिरुमलतिरुपतिदेवस्थानस्य कल्याणमण्डपे अनन्तपुरे समभवत्तत्रातिथिभिः शारदार्चनेन दीपप्रज्ज्वलनपुरस्सरं विहितम्।
अयं संस्कृतसम्भाषणवर्गः समाजे संस्कृतस्य प्रचाराय प्रसाराय च क्रियते। अस्मिन् वर्गे उपविंशतिः सामाजिकाः जनाः भागं गृह्णन्ति। संस्कृतभारत्याः अनन्तपुरस्य जनपदकार्यदर्शी डा० के.काशीविश्वेश्वरशर्मा उक्तवान् यत् संस्कृतभाषा अतिसरला भाषा वर्तते। दशदिवसीयसम्भाषणवर्गे सरलतया प्रत्यक्षविधिना संस्कृतं पाठ्यते येन सहजतया सरलसंस्कृतेन सम्भाषणं कर्तुं शक्यते। केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षकः आचार्यः विशालप्रसादभट्टः संस्कृतसम्भाषणवर्गे प्रशिक्षकत्वेन शिक्षार्थिभ्यः संस्कृतभाषाशिक्षणं विदधाति। तत्र प्रशिक्षकेण वर्गस्य प्रथमे दिने ध्येयमन्त्रः, वर्गगीतं, संस्कृतेन परस्परं परिचयः, वस्तूनां परिचयः, एतत्-तत्-शब्दयोः त्रिषु लिङ्गेषु प्रयोगः,स्थानवाचिकाव्ययपदानां प्रयोगः इत्यादिबिन्दूनां पाठनं कृतम्।
इत्थमयंवर्गः जनवरीमासस्य दशमदिनाङ्कं यावत् आयोजयिष्यते। अन्ते शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिः अभवत्।











