प्रधानमन्त्रिणा नरेन्द्रमोदिना तमिलनाडो: तिरुचिरापल्ल्यां विंशति- सहस्र-कोट्यधिक-रूप्यकाणां अधिकानां बहवः विकास-परियोजनानां लोकार्पणं-शिलान्यासो च विहितः। एतासां परियोजनानां विमानन-रेल सडक-तैल वाति- जलपोत- उच्च-शिक्षा-सम्बद्ध-परियोजना- समाविष्टाः सन्ति । तेन तिरुचिरापल्ली-अन्तराष्ट्रिय-विमानन्पत्तने-सहस्राधिक-कोट्यधिक-रूप्यकाणां विनिर्मित- टर्मिनल-भवनस्यापि समुद्धघाटनं विहितम्। अवसरेऽस्मिन् प्रधानमन्त्रिणोक्तं यत् एताः सर्वाः परियोजनाः राज्यस्य विकासं सुदृढयिष्यन्ति, आर्थिक-विकासं च विवर्धयिष्यन्ति। एतस्मात् राज्यस्य बहवः युवकाः वृत्ति- युताः भविष्यन्ति। इतः प्राक् श्रीमोदिना अद्य तिरुचिरापल्ल्यां भारती-दासन-विश्वविद्यालयस्य अष्टित्रिंशत् तमे दीक्षान्त-समारोहे भागं ग्रहीतम्। अवसरेऽस्मिन् तेन भवितं यत् भारत देशः आर्थिक-विकासस्य नूतन-कीर्तिमानः स्थापयति । तेन प्रतिपादितं यत् विगत दश-वर्षेषु विमान-पत्तनानां संख्या चतुस्सप्ततितः विवर्ध्य साधक-शता संजाता। प्रधानमन्त्रिणा प्रोक्तं यत् भारतेन विश्वस्य महत्वपूर्ण-अर्थव्यवस्थाभिः साकं बहवः व्यापारिक-संधिः अपि प्रमाणीकृताः । प्रधानमन्त्रिणा केरल राज्यस्य त्रिशूर मण्डले अपि सम्प्राप्तवान् यत्र सः थेक्किंकडु उद्याने भाजपा दलेन आयोजिते “मोदिना सह महिला शक्ति” इत्यास्मिन् महिला सम्मेलने भागं भजितवान्।
प्रधानमन्त्रिणा तदनन्तरं लक्षद्वीपम्प्रति सम्प्राप्तवान् । तत्र असौ अगत्ती-द्वीपे विभिन्न-प्राशासनिक -योजना: संबोधिताः। प्रधानमन्त्रिणा लक्षद्वीपस्य कावारत्तीस्थले अनेकासां विकासात्मक-परियोजनानां शुभारम्भः शिलान्यासः च संस्थापिता। एताषु परियोजनासु पञ्चाशदधिक-एकादशसहस्र- कोटिरूप्पकाणां पेयजलापूर्ति-सौरोर्जा-सादृशाः परियोजनाः सम्मिलिताः सन्ति। कोच्चि- लक्षद्वीपयोर्मध्ये उल्लिखितानां परियोजनां सब्मरिन-ऑप्टिकल-फ़ाइबर-सम्पर्कः दूरस्थेषु द्वीपेषु निवसितेभ्यः जनेभ्यः महत्वपूर्ण रूपेण पुष्टिड़ग्तो भविष्यति। तेभ्यः तीव्र-अन्तर्जालसेवा अपि मेलिष्यति । अपरत्र, पेयजलापूर्ति सादृशा द्वितीया परियोजना अगाति-मिनीकॉय-द्वीपयोः सर्वेषु गृहेषु जलसौविध्यं प्रदास्यति। अनने लक्षद्वीपे पर्यटन सौविध्यं समुचितं भविष्यति । युवानः अपि वृत्तियुताः भविष्यन्ति। श्रीमोदिना प्रथमायाः बैट्रीचालित-सौरार्जा-परियोजनायाः अपि लोकार्पणं विहितम् अनेन डीजलेन्धनाधारित-विद्येतोपादन-संयन्त्रेषु द्वीपस्य निर्भरतायाः अपचितिः भविष्यति। प्रधानमन्त्रिणा कावारत्ती इत्यत्र भारतीय-रिजर्व-बटालियन-इत्याख्यस्य नवीन- प्राशसनिक खण्डस्य अशीति जनानां क्षमतायुतस्य प्रकोष्ठस्यापि उद्घाटनं कृतम्। असौ काल्पेनीस्थले प्राथमिक स्वास्थ्यकेन्द्रस्य नवीनीकरणस्य एंद्रोथ-चेटलेट-कदमत- अधाति-मिनीकॉय-द्वीपेषु आगनवाड़ी-केन्द्राणां च आधारशिलां संस्थापितवान्।











