भारते नैके उत्सवाः सन्ति । तेषु एकः लोकप्रियः उत्सवः मकरसङ्क्रमणोत्सवः। एषः उत्सवः प्रतिवर्ष जानेवारीमासस्य चतुर्दशे दिनाङ्के भवति। यस्मिन् समये सूर्यः मकरराशौ प्रविशति, सः समयः मकरसङ्क्रमणम्। उत्तरायणकालः मकरसङ्क्रमणात् प्रारभते । अतः एषः उत्सवः अतीव मङ्गलमयः।
एषः उत्सवः सम्पूर्ण भारते आन्दददायकः। सर्वे जनाः एतं उत्सवं केनचन प्रकारेण आचरन्ति। भारतस्य बहुषु राज्येषु अस्य उत्सवस्य ‘मकरसङ्क्रान्तिः’ अथवा ‘मकरसङ्क्रमणम्’ इति नाम। तमिळनाडुराज्ये ‘पोंगल’ इति उत्सवस्य नाम। ‘लोहरी’ इति पंजाबराज्ये आदिराज्येषु च उत्सवस्य नाम।
उत्सवस्य दिने सर्वे जनाः तिलगुडं प्रयच्छन्ति। तदा “तिलगुडं गृह्णातु मधुरं च वदन्तु” इति ते कथयन्ति। तिलगुडखाद्यानि स्नेहस्य माधुर्यस्य च प्रतीकानि। शीतकाले तिलगुडखाद्यानि शरीरस्य स्वास्थ्याय लाभपूर्णानि। अतः मकरसङ्क्रमणोत्सवे जनाः तानि आनन्देन खादन्ति।
अयम् उत्सवः अस्माकं जीवनस्य महत्त्वपूर्णः भागः। एषः उत्सवः मह्यम् अतीव रोचते। मकरसङ्क्रमणोत्सवस्य शुभाशयविषये इदम् एकं सुभाषितम् –
भास्करस्य यथा तेजो मकरस्थस्य वर्धते।
तथैव भवतां तेजो वर्धतामिति कामये ॥
एतदृशी गोमाता प्रतिदिनम् अपि पूजनीया । य: प्रतिदिनं न श्क्नोति स: सङ्क्रमणदिने वा गोपूजां कुर्यात् । शुभकर्मणि, अपरकर्मणि, श्राद्धकर्मणि एवं सर्वत्रापि गोपूजा श्रेयस्करी । गोमातु: श्रृङ्गद्वये अयनद्वयस्य अधिदेवता: निवसन्ति । अयनद्वयस्य सन्धिकाले मकरसङ्क्रमणदिने गोपूजा अत्यन्तं श्रेयस्करी ।
तद्दिने मध्याह्नभोजनानन्तरं नारिकेल-गुड-कलायमिश्रितं तिलम्, इक्षुदण्डं, शर्करानिर्मितं विग्रहं च प्रतिगृहं गत्वा वितरन्ति । रात्रौ देवतापूजाया: अनन्तरं ज्योतिष्कान् सगौरवम् आह्वयन्ति । ज्योतिष्का: सङ्कान्तिमूर्ते: स्वरूपं, तस्य वर्षस्य सङ्क्रमणफलं प्ञ्चाङ्घानुसारं वदन्ति ।
वैद्यकीयमहत्त्वम् : शैत्यकाले अस्माकं शरीरे विद्यमान: तैलांश: शाखार्थं व्ययित: भवति । तेन शरीरे तैलांशस्य अभाव: भवति । तस्मात् शीतसम्बद्धा: रोगा: जायन्ते । नारिकेल-गुड-कलायमिश्रितस्य तिलस्य, इक्षुदण्डस्य, शर्कराभक्ष्यस्य च भक्षणेन अभाव: निवार्यते ।











