श्रीमोदी महाराष्ट्रस्य सोलापुरमध्ये अनेक- विकास-परियोजनानाम् आधार-शिला-स्थापना-पूर्वकं तासाम् उद्घाटनस्य अनन्तरं जनान् संबोधयति स्म। प्रधानमन्त्री उक्तवान् यत् तस्य सर्वकारः पञ्चविंशतिः-कोटिकान् जनान् निर्धनता- तः बहिरानीतवान्। श्रीमोदिना भणितं यत् “प्रधानमन्त्रि-निर्धन-कल्याण-योजना” आग्रेऽपि पञ्चवर्षाणि यावत् यस्थावस्थमेव प्रवर्तयिष्यते। प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रवोचत् यत् तस्य प्रशासनं देशे वंचित-परिवाराणां सेवायै समर्पितमस्ति। अमुना प्रोक्तं यत् सर्वकारः एतेषां परिवाराणां जीवनं सुगमं कर्तुं विभिन्न-योजनाः प्रारभत।
प्रधानमन्त्री न्यगदत् यत् शासनेन दशकोटि-मिताः शौचालयाः, चतुःकोटिमितानि च भवनानि, पूर्वमेव सन्ति जनेभ्यः उपपादितानि ।
प्रधानमन्त्रि-पौरावास-योजनायाः अन्तर्गतं निर्मितानि नवति-सहस्र-मितानि आवासीय- भवनानि, सोलापुरे च रायनगर आवास सोसायटी मध्ये विनिर्मितानि पञ्चदश-सहस्र-मितानि आवासीय-भवनानि लाभार्थिभ्यः प्रदाय अमुना प्रोक्तं यत् महाराष्ट्रे एकलक्षाधिकैः परिवारैः आवासाः प्राप्स्यन्ते। “रायनगर आवास-सोसायटी” इत्यस्य लाभार्थिषु पारेसहस्रं हथकरघा इति तूरीवेमा-सीवन-श्रमिकाः, विक्रेतारः, दैनन्दिन-कर्मकराः, अवकरं प्रचीय विक्रेतारः, वाहनचालकाः चेत्यादयः सन्ति सम्मिलिताः।
प्रधानमन्त्री नरेन्द्रमोदी विपक्षं कट्वालोचनयन् उक्तवान् यत् प्राक्तनैः शासनारूढ-सर्वकारैः निर्धनता अपाक्रियतामिति उद्घोषः तु प्रदत्तः किन्तु ते वस्तुतः निर्धनता दूरीकरणे नैव सफलाः जाताः। अमुना प्रोक्तं यत् तस्य सर्वकारः पारदर्शितया साकं कार्यं करोति येन लाभार्थिभ्यः वास्तविकरूपेण लाभः जायते। सोलापुर-मध्ये प्रधानमन्त्रिणा अमृत मिशन इत्यभियानान्तर्गतं प्रायः सहस्र-कोटि-रूप्यक-मूल्य-मितानां परियोजनानाम् आधारशिला अपि स्थापिता। अर्जुना राज्ये प्रधानमन्त्रि-स्वनिधेः दश- सहस्र-लाभार्थिभ्यः धनानुदानस्य प्रथमस्य, द्वितीयस्य च धनपुटकयोः प्रख्यापनमपि प्रारब्धम् अस्ति। अस्मिन् अवसरे महाराष्ट्रस्य राज्यपालः रमेश-बैसः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ- शिन्देः, उपमुख्यमन्त्री देवेन्द्र फडनवीसः अजीत-पवारश्च उपस्थिताः आसन्।











