विंग्स-इण्डिया इति चतुविंशत्युत्तर-द्विसहस्रतमः कार्यक्रमः हैदराबादस्थस्य बेगमपैट-विमानपत्तनस्थानके आयोजितम। केन्द्रीय-नागर-विमानन-मन्त्री ज्योतिरादित्य-सिन्धिया बेगमपेट विमान-पत्तने प्रतिष्ठितस्य ऐषमः विंग्स इंडिया इत्यस्य वैश्विक-विमानन- सम्मेलनस्य उद्घाटनम् अकरोत्।अवधेयं वर्तते विंग्सइण्डिया इति यत् एशियाद्वीपस्य बृहत्तमा नागरिकोड्डयन-प्रदर्शनी मान्यते तत् नवीनवंशस्य विमानप्रदर्शन करिष्यति। अथ च विमानन-सहायक उद्योग-पर्यटन क्षेत्रेषु च प्रगतिप्रदर्शनं अकरोत । एषः कार्यक्रमः चतुर्दिनानां कृते आसीत्। भारतीय-विमानन-प्राधिकरणेन नागर-विमानन- मन्त्रालयस्य भारतीय उद्योग-मण्डल-परिसंघस्य फिक्की इत्यस्य च सान्निध्ये द्वै-वार्षिक-कार्यक्रमस्य आयोजनमस्ति कृतम्। ऐषमः विंग्स इंडिया इत्यस्य आयोजनम् ‘अमृत-काले भारतस्य विश्वेन साकं संयोजनस्य’ लक्ष्येन साकं विधीयते। एतस्मिन् देशस्य भावि उड्डयन क्षेत्रस्य कृते कार्य-नीति-निर्माणे कार्य-योजना निर्माणे चापि विचार-विमर्शः विधास्यते। अस्मिन् अवसरे श्रीसिन्धिया विमानन क्षेत्रस्य विभिन्नायामि-गतिविधीनां सहायता प्रापणाय सर्वकारस्य संकल्पः व्यक्तीकृतः अस्ति, येन अस्य क्षेत्रस्य संभावनानां दोहनं कर्तु शक्येत।











