असम राज्यस्य तेजपुरे जनवरी मासस्य विन्शति दिनाङ्के सशस्रसीमाबलस्य षष्ठीतमे स्थापनादिवसेकेन्द्रिय गृहमन्त्रिणा अमित शाहेनोक्तं यत् आगामि-त्रिषु वर्षेषु देशः नक्सलवादमुक्तः भविष्यति। तेनोक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अग्रिमेषु त्रिषु वर्षेषु देश: नक्सलवादे पूर्णरूपेण मुक्तो भविष्यति। तेन देशे नक्सलवादस्य प्रभावः न्यूनीकरणे केन्द्रीयरिजर्व आरक्षि बल सीमा सुरक्षा बलाभ्यां सहैव, सशस्रसीमा बलस्य चापि भूमिकायाः प्रशंसा कृता। श्री शाहेनोक्तं यत् सशस्र- सेना-बलेन न केवलं अन्ताराष्ट्रिय सीनि रक्ष्यते, अपितु देशस्य सीमाबर्तिनां क्षेत्रणां संस्कृति- न्यासयोः च संरक्षणे महत्वपूर्णां भूमिकां निर्वहति । तेनोक्तं यत् सशस्र-सीमा-बलेन सीनि रक्षयता अस्मिन् स्थानीय-जनानां सहभागित्वमपि सुनिश्चितं कुर्वदस्ति। गृहमन्त्रिणा सीमावर्ति क्षेत्रेषु मादकपदार्थानां शस्त्राणां च अन्वेषणे सशस्र-सेना-बलस्य सुरक्षाकर्मिणां भूमिकां अपि प्रोत्साहितम्। मोदी सर्वकारस्य प्रयासान् उल्लेखयता श्रीशाहेन प्रतिपादितं यत् केन्द्रिय सशस्र बलेषु विगतेषु नव वर्षेषु प्रायः पादोन द्विलक्षं यावत् सैनिकाः नियोजिताः। तेनोक्तं यत् आपराधिक न्याय प्रणाल्या सम्बन्धितेन नूतनविधिना शीघ्रं न्यायं मेलिष्यति। गृहमन्त्रिणोक्तं यत् नवविधिनानुसारं सम्प्रति कस्यापि जनस्य प्राथमिक्याः निवारणं त्रयाणां वर्षाणाम् आभ्यन्तरेव भविष्यति। श्रीशाहेन स्थापनादिवसस्यावसरे एका प्रैष्य-चीटिका प्रसारिता अनेकासां विभागीय परियोजनानामपि उद्घाटनं विहितम्।











