वार्ताहरः -डॉ.दिनेश चौबे, उज्जयिनी
नवदेहलीस्थ भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीना भारतीयभाषासमितिः,उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेन्द्रम् इत्यनयोः संयुक्ततत्त्वाधाने आयोजिता संस्कृतध्येयवाक्यानां विश्लेषणम् इति विषयिण्याः त्रिदिवसीयराष्ट्रियकार्यशालायाः शनिवासरे सायंकाले समापनं जातम्। कार्यशालाया: प्रतिवेदनं कार्यशालासंयोजकेन डॉ.अखिलेशकुमारद्विवेदी महोदयेन प्रस्तुतम् समापनकार्यक्रमे अध्यक्षरूपेण उपस्थितेन विश्वविद्यालयस्य कुलपतिवर्येण आचार्यविजय कुमारसीजीमहोदयेन उक्तं यत् एतादृशा: कार्यशाला: सङ्कल्पेन समर्पणेन च सम्पन्ना: भवन्ति। भारतीयभाषासमित्याः उद्देश्यानुगुणम् अस्यां कार्यशालायां विद्वतभि: सस्कृतध्येयवाक्यानां मंथनविश्लेषणपूर्वकञ्च सरलसंस्कृतभाषया, हिन्दी- आङ्ग्ल भाषाभ्याञ्च अनुवादकार्यं सम्पादितम्। महता परिश्रमेण उत्साहेन च सर्वे अत्र भागं गृहीतवन्तः। अस्मिन्नवसरे आचार्यतुलसीदासपारौहामहोदय:विश्वविद्यालयस्य रीवापरिसरप्रभारि: विशेषरुपेण उपस्थितः आसीत् ।कार्यशालायां आचार्य: हेमन्तगेहलोतमहोदय; प्राचार्य: ,शासकीयकन्या स्नात्कोत्तरमहाविद्यालय: उज्जयिनीत: श्रीमान्सौरभकुमार: , नवदेहलीत: डॉ. उमाशंकरपुरोहितः, इंदौरत: डॉ. एसटीपीकनकवल्ली , भोपालत: ,डॉ.श्रेयस कोरान्ने, श्रीयशशर्मा , शासकीयसंस्कृत महाविद्यालय: उज्जयिनीत: अन्ये विद्वांश: पाणिनिविश्वविद्यालयस्य ये कार्यशालायां संसाधकरूपेण कार्यं संपादितवन्त: । समन्वयक: डॉ.दिनेशचौबेमहोदय: च आसीत्।











