गणतन्त्र दिवसस्य अवसरे अस्मिन् वर्षे फ्लाई-पास्ट इति कार्यक्रमे वायु-सैन्य-बलस्य एकोन- त्रिंशद् विमानानि, अष्ट-मितानि भार-वाहि-विमानानि, त्रयोदश-मितानि उदग्र-यानानि, एकं रिक्य-विमानं च समेत्य आहत्य एक-पञ्चाशद् विमानानि गगने उड्डयन-लीलां करिष्यन्ति। वायुसेनायाः अधिकारिणाम् अनुसारेण राफेल, सुखोई- त्रिंशत्, जगुआर, सी- त्रिंशदुत्तरैक- शतम्, तेजस चेति विमानानि पृथक् पृथक् प्रारूपेषु फ्लाईपास्ट इति उड्डयन-लीला-कौतुकं प्रदर्शयिष्यन्ति।
अस्मिन् वर्षे सैन्य-प्रयाणस्य अवसरे वायु-सैन्य-बलस्य पथसञ्चलन-दलस्य नेतृत्वं महिला अधिकारी कुरुते। एतासु स्क्वाड्रन नायिका रश्मि ठाकुरः, सुमिता यादवः, प्रतीतिः अहलुवालिया, फ्लाइट लेफ्टिनेंट कीर्ति रोहिलः च सामाविष्टाः सन्ति। पथ-सञ्चालन-दले चतुश्चत्वारिंशदुत्तर- एकशतं वायुबलयोद्धारः भागं भजिष्यन्ते।











