राजकीया दन्तवेदना (बाल कथा)

सिंहः वनस्य राजा अस्ति। सिंहः उच्चैः गर्जति । तस्य गर्जनं यदा अन्यमृगाः शृण्वन्ति तदा सर्वे कम्पन्ते भयम् अनुभवन्ति च ।
दिनद्वयात् आरभ्य तस्य दन्तवेदना अस्ति । वनस्य वैद्यः वानरः वदति – ” राजन्! एषः दन्तः न आवश्यकः । एतं दन्तं निष्करोतु। “
सिंहः वदति -” अस्तु । तथा भवतु।” परन्तु कः सिङ्घस्य दन्त निष्करोति ? सर्वे सिन्हात् भयम् अनुभवन्ति।
महाराज​, अहं पश्चात्पादाभ्यां पादप्रहारं करोमि । तदा दन्तः मुखात् बहिः आगच्छति ” इति मूर्खः गर्दभः वदति । “भवान् मह्यं पादप्रहारं ददाति ?” इति कोपेन सिंहः वदति ।
गर्दभः पादयोः मध्ये पुच्छं स्थापयित्वा ततः पलायति गजः चित्रकः भल्लूकः हरिणः च​ चिन्ताकुलाः भवन्ति ।
कः सिंहस्य मुखे स्वहस्तं स्थापयति ?दिनद्वयम् अतीतम् । दन्तवेदना असहनीया । “अहं पश्यामि किम् ? ” इति मूषकः रात्रिसमये एकाकिनं सिंहं प्रति वदति ।
“अस्तु । पश्यतु “। इति सिंहः मूषकं वदति ।
सिंहः मुखं उद्घाटयति “अहो! भवतः दन्ते मालिन्यं परिलग्नम् अस्ति “। मूषकः अतिसूक्ष्मतया दृष्ट्वा वदति ।
मूषकः तस्य तीक्ष्णेन दन्तेन सिंहस्य मुखस्य स्वच्छतां करोति । सिंहः समीचीनतरम् अनुभवति ।
“महाराज ! भवान् कृपया प्रतिदिनं दन्तधावनं करोतु नो चेत् भवतः दन्तः क्लिद्यति “। मूषकः वदति ।
“आम् , भवान् सत्यं वदति । परन्तु अन्यान् मा सूचयतु नो चत् ते वदन्ति अस्माकं राजा शुचित्वं न पालयति ” । इति सिंहः निवेदयति
“अस्तु , तथा करोमि ” । इति मूषकः हसन् वदति । तदा सिंहः अपि हसति ।