अनेकेषां वर्षाणां स्वप्नः अधुना सत्यः भूयते। अद्य २२ जनवरी २०२४ दिनाङ्के अयोध्यायां श्रीरामललायाः प्राण प्रतिष्ठानाय सर्वाः सज्जताः सम्यूरिताः। प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् ऐतिह्य-शुभावसरे देशस्य नेतृत्वं करिष्यति। अस्मिन् भव्यायोजने बृहत्तमायां संख्यायां जनाः अति- विशिष्ट-जनाश्च सम्मिलिताः भविष्यन्ति। सहस्राधिकाः साधवः ऋषयः श्रद्धालवः च अस्याम् अयोध्यानगर्यां स्वीयाह्लादित- भावनया पवित्र-मनसा च आगच्छन्ति। रामायणेन रामगीतैश्च सम्पूर्ण राष्ट्र भावयुक्तमस्ति।
संपूर्ण अयोध्या नगरं आध्यात्मिकवर्णैः अलङ्कृतम् आसीत्। समारोहे प्रधानमन्त्री मोदी , मुख्यमन्त्री योगी च उपस्थिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी मध्याह्ने द्वादशवादने अयोध्यानगर्यां नवनिर्मिते श्रीराम-जन्मभूमि-मन्दिरे भगवतः श्रीरामस्य बालप्रतिमायाः प्राणप्रतिष्ठायाः शुभावसरे भागं अभजत ।
जनवरीये द्वाविंशतिः दिनाङ्के , प्रातः १० वादनात् शुभध्वनिः प्रतिध्वनितः, अपराह्णे १२:२० वादनतः १:०० वादनपर्यन्तम् ,चतुरशीतिः क्षणस्य शुभसमये प्राणप्रतिष्ठा संपन्नः ।
गतवर्षस्य अक्टूबरमासे प्रधानमन्त्रिणा श्रीराम-जन्मभूमि-अनुदानेन प्रदत्तं प्राणप्रतिष्ठायाः निमन्त्रणं स्वीकृतम् आसीत्। अस्मिन् ऐतिह्य-प्राण-प्रतिष्ठायोजने देशस्य आध्यात्मिक-धार्मिक-सम्प्रदयोः प्रतिनिधयः चापि आगच्छन्ति। एतस्मिन् भव्यायोजने आदिवासि-समुदास्य चापि प्रतिनिधयः आगच्छन्ति। श्रीमोदी असौ कुबेर-टीलाइत्यत्र अपि दर्शनं च अकरोत्। यन्त्र भगवतः शिवस्य प्राचीन-मन्दिरस्य जीर्णोद्धारः जातः। असौ अस्मिन्पुनर्निमिते मन्दिरे पूजां दर्शनं च अकरोत् ।
अस्य पावन अवसरे बहुदिनानि अनेकाः कार्यक्रमाः महता उत्साहेन सम्पादिताः।
पूर्वे प्रधानमन्त्रिणा नरेन्द्रमोदिना श्रीराममन्दिरम् आधृत्य षड् स्मारक डाकप्रत्राणां लोकार्पणं विहितम्। श्रीमोदिना विश्वेस्मिन् भगवतः रामचन्द्रस्योपरि निर्गतानां डाक-पत्राणां संकलन-पुस्तिकापि प्रकाशिता। आकृति-घटकेषु राममन्दिरस्य, मंगल भवन अमंगल हारी चौपाई इत्यस्य, सूर्यस्य, सरयूनद्याः अपि च मन्दिरस्य समीपेस्थितानां प्रतिमानां चित्राणि अपि सम्मिलितानि सन्ति। केन्द्रसर्वकारस्य कार्य-स्थलानि अस्य मासस्य द्वाविंशतिः दिनांकस्य अपराहने त्रिंशत-निमेषाधिक-द्वि-वादनपर्यन्तं पिहितानि अभवत् । मुख्यमन्त्रिणा योगि-आदित्यनाथेन अयोध्यायां सज्जतायाः समीक्षा कृता। तेन टेंटसिटी इत्याख्यस्य अतिथिभ्यः निर्मितस्य अस्थायि-वास-स्थलस्य अपि परिभ्रमणं कृतं, यत्र देशविदेशेभ्यः समागताः अतिथयः निवत्स्यन्ति। अयोध्यया सह समग्रस्य प्रदेशस्यापि सुरक्षाव्यवस्था वरीवर्धिताऽस्ति। एतन्मध्ये प्राणप्रतिष्ठायाः अङ्गीभूतानि नैकानि आनुष्ठानिक – कार्याचरणानि तत्र पुरोहितैः सम्पादितानि । येषु देवप्रबोधनम्, औषध्याधिवासः घृताधिवासः, कुण्डपूजनम्, अग्निस्थापनादीनि प्रमुखानि आनुष्ठानिक – कर्मकाण्डीय कार्याणि सन्ति। एतानि प्राणप्रतिष्ठातः पूर्ववर्तीनि कर्मकाण्डीयकार्याणि श्रीमतः गणेश्वर-शास्त्रि-द्रविडस्य सान्निध्ये सम्पाद्यमानानि सन्ति, यानि जनवरीमासस्य एकविंशतिः तालिकापर्यन्तं आयोजितम्। मन्दिरे रामललाख्यस्य भगवतः बाल-रामस्य दर्शनाय आराष्ट्रात् श्रद्धालवः आयान्तः सन्ति।
शिलान्यासः
५ अगस्ट् २०२० तमे दिनाङ्के शिलान्यासानन्तरम् अधिकृतरूपेण देवालयनिर्माणकार्यं पुनः आरब्धम् । दिनत्रयं यावत् पूजाः कृत्वा सुदीर्घाः वैदिकाचाराः प्रवर्तिताः । अगस्ट् ४ दिनाङ्के रामार्चनपूजां कृत्वा देवताह्वानम् अभवत् । अगस्ट् ५ दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भूगर्भे ४० के.जि परिमितं रजत-इष्टिकां विन्यस्य भूमिपूजां कृतवान्।
भूमिपूजावसरे भारतस्य विविधभागेभ्यः पवित्रमृत्तिकायाः जलस्य च आनयनं प्रावर्तत । त्रिवेणीसङ्गमात्, तलकावेर्याः, कामाख्यदेवालयात्, जैन-सिख् मन्दिरेभ्यः च मृत्तिकादिकम् आनीतम् । पाकिस्थानस्य शारदापीठादपि जलमानीतम् । शिलान्यासावसरे केनडा इङ्ग्लेण्ड् इत्यादिषु देशेषु विशेषपूजाः प्रावर्तन्त । अयोध्यायाः हनुमान्गडी मन्दिरात् ७ किलोमीटर्विस्तीर्णे विद्यमानेषु सर्वेष्वपि देवालयेष दीपप्रज्वालनं कृतम् । रामं स्वकीयपूर्वजत्वेन मन्वानाः अयोध्यायाः मुस्लिंजनाः अपि शिलान्यासे सहयोगं कृतवन्तः । सर्वमतानां मुख्यस्थाः कार्यक्रमे आहूताः आसन् ।











